द्रोणपर्व

अध्यायः ६७

Drona Parva (Sanskrit) · Adhyaya 67
अक्षर का आकार

नारद उवाच।

साङ्कृतिं रन्तिदेवं च मृतं सृञ्जय शुश्रुम।
यस्य द्विशतसाहस्रा आसन्सूदा महात्मनः।।

गृहानभ्यागतान्विप्रानतिथीन्परिवेषकाः।
पक्वंपक्वं दिवारात्रं वरान्नममृतोपमम्।।

न्यायेनाधिगतं वित्तं ब्राह्मणेभ्यो ह्यमन्यत।
वेदानधीत्य धर्मेण यश्चक्रे द्विषतो वशे।।

उपस्थिताश्च पशवः स्वयं यं शंसितव्रतम्।
बहवः स्वर्गमिच्छन्तो विधिवत्सत्रयाजिनम्।।

नदी महानसाद्यस्य प्रवृतक्ता चर्मराशितः।
तस्माच्चर्मण्वती नाम ख्याता पुण्या सरिद्वरा।।

ब्राह्मणेभ्यो ददन्निष्कान्सौवर्णान्स प्रभावतः।
तुभ्यं निष्कं तुभ्यं निष्कमिति ह स्म प्रभाषते।।

तुभ्यन्तुभ्यमिति प्रादान्निष्कान्निष्कान्सहस्रशः।
तत पुनः समाश्वास्य निष्कानेव प्रयच्छति।।

अल्पं दत्तं मयाऽद्येति निष्ककोटिं सहस्रशः।
एकाह्ना ताम्यति ततः क्वाद्य विप्रा इति ब्रुवन्।।

द्विजपाणिवियोगेन दुःखं मे शाश्वतं महत्।
भविष्यति न सन्देह एवं राजाऽददद्वसु।।

सहस्रशश्च सौवर्णान्वृषभान्गोशतानुगान्।
साष्टं शतं सुवर्णानां निष्कमाहुर्धनं तथा।।

अध्यर्धमासमददद्ब्राह्मणेभ्यः शतं समाः।
अग्निहोत्रोपकरणं यज्ञोपकरणं च यत्।।

ऋषिभ्यः करकान्कुम्भान्स्थालीः पिठरमेव च।
शयनासनायानानि प्रासादांश्च गृहाणि च।।

वृक्षांश्च विविधान्दद्यादन्नानि च धनानि च।
सर्वं सौवर्णमेवासीद्रन्तिदेवस्य धीमतः।।

तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः।
रन्तिदेवस्य तां दृष्ट्वा समृद्धिमतिमानुषीम्।।

नैतादृशं दृष्टपूर्वं कुबेरसदनेष्वपि।
धनं च पूर्यमाणं नः किं पुनर्मनुजेष्विति।।

व्यक्तं वस्वोकसारेयमित्युचुस्तत्र विस्मिताः।
साङ्कृते रन्तिदेवस्य यां रात्रिमतिथिर्वसेत्।।

आलभ्यन्त तदा गावः सहस्राण्येकविंशतिः।
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः।।

सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा।
रन्तिदेवस्य यत्किञ्चित्सौवर्णमभवत्तदा।।

तत्सर्वं वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत।
प्रत्यक्षं तस्य हव्यानि प्रतिगृह्णन्ति देवताः।।

कव्यानि पितरः काले सर्वकामान्द्विजोत्तमाः।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।।

पुत्रात्पुण्डतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये सप्तषष्टितमोऽध्यायः।। 67 ।।