द्रोणपर्व

अध्यायः ६६

Drona Parva (Sanskrit) · Adhyaya 66
अक्षर का आकार

नारद उवाच।

गयं चाधूर्तरजसं मृतं सृञ्जय शुश्रुम।
ये वै वर्षशत राजा हुतशिष्टाशनोऽभवत्।।

तस्मै ह्यग्निर्वरं प्रादात्ततो वव्रे वरं गयः।
तपसा ब्रह्मचर्येण व्रतेन नियमेन च।।

गुरूणां च प्रसादेन वेदानिच्छामि वेदितुम्।
स्वधर्मेणाविहिंस्यान्यान्धनमिच्छामि चाक्षयम्।।

विप्रेषु ददतश्चैव श्रद्धा भवतु नित्यशः।
कन्यासु च सवर्णासु सुप्रजस्त्वं च मे भवेत्।।

अन्नमोजो महो मह्यं धर्मे मे रमतां मनः।
अविघ्नं चास्तु मे नित्यं धर्मकार्येषु पावक।।

तथा भिष्यतीत्युक्त्वा तत्रैवान्तरधीयत।
गयो ह्यवाप्य तत्सर्वं धर्मेणाराधयञ्जगत्।।

स दर्शपूर्णमासाभ्यां कालेष्वाग्रयणेन च।
चातुर्मास्यैश्च विविधैर्यज्ञैश्चावाप्तदक्षिणैः।।

अयजच्छ्रद्धया राजा परिसंवत्सराञ्शतम्।
गवां शतसहस्राणि शतमश्वशतानि च।।

शतं निष्कसहस्राणि गवां चाप्ययुतानि षट्।
उत्थायोत्थाय सम्प्रादात्परिसंवत्सराञ्शतम्।।

नक्षत्रेषु च सर्वेषु ददन्नक्षत्रदक्षिणाः।
ईजे च विविधैर्यज्ञैर्यथा सोमोऽङ्गिरा यथा।।

सौवर्णां पृथिवीं कृत्वा य इमां प्रमिशर्कराम्।
विप्रेभ्यः प्राददद्राजा सोऽश्वमेधे महामखे।।

जाम्बूनदमया यूपाः सर्वे रत्नपरिच्छदाः।
गयस्यासन्समृद्धास्तु सर्वभूतमनोहराः।।

सर्वकामसमृद्धं च प्रादादन्नं गयस्तदा।
ब्राह्ममेभ्यः प्रहृष्टेभ्यः सर्वभूतेभ्य एव च।।

ससमुद्रवनद्वीपनदीनदवनेषु च।
नगरेषु च राष्ट्रेषु दिवि व्योम्नि च येऽवसन्।।

भूतग्रामाश्च विविधाः सन्तृप्ता यज्ञसम्पदा।
गयस्य सदृशो यज्ञो नास्त्यन्य इति तेऽब्रुवन्।।

षट्‌त्रिंशद्योजनायामा त्रिंशद्योजनमायता।
पश्चात्पुरश्चतुर्विंशद्वेदी ह्यासीद्धिरण्मयी।।

गयस्य यजमानस्य मुक्तावज्रमणिस्तृता।
प्रादात्स ब्राह्मणेभ्योऽथ वासांस्याभरणानि च।।

यथोक्ता दक्षिणाश्चान्या विप्रेभ्यो भूरिदक्षिणः।
यत्र भोजनशिष्टस्य पर्वताः पञ्चविंशतिः।।

कुल्याश्च क्षीरवाहिन्यो रसानां चापभवंस्तदा।
वस्त्राभरणगन्धानां शारयश्च पृथग्विधाः।।

यस्य प्रभावाच्च गयस्त्रिषु लोकेषु विश्रुतः।
वटश्चाक्षय्यकरणः पुण्यं ब्रह्मसरश्च तत्।।

स चेन्ममार स़ञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये षट्‌षष्टितमोऽध्यायः।। 66 ।।