द्रोणपर्व

अध्यायः ६५

Drona Parva (Sanskrit) · Adhyaya 65
अक्षर का आकार

नारद उवाच।

शशिबिन्दुं च राजानं मृतं सृञ्जय शुश्रुम।
य ईजे विविधैर्यज्ञैः श्रीमान्सत्यपराक्रमः।।

तस्य भार्यासहस्राणां शतमासीन्महात्मनः।
एकैकस्यां च भार्यायां सहस्रं तनयाभवन्।।

ते कुमाराः पराक्रान्ताः सर्वे नियुतयाजिनः।
राजानः क्रतुभिर्मुख्यैरीजाना वेदपारगाः।।

हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः।
सर्वेऽश्वमेधैरीजानाः कुमाराः शाशिबिन्दवाः।।

तानश्वमेधे राजेन्द्रो ब्राह्मणेभ्योददत्पिता।
शतंशतं रथगजा एकैकं पृष्ठतोऽन्वयुः।।

राजपुत्रं तदा कन्यास्तपनीयस्वलङ्कृताः।
कन्याङ्कन्यां शतं नागा नागेनागे शतं रथाः।।

रथेरथे शतं चाश्वा बलिनो हेममालिनः।
अश्वेअश्वे गोसहस्रं गवां पञ्चाशदाविकाः।।

एतद्धनमपर्याप्तमश्वमेधे महामस्वे।
शशिबिन्दुर्महाभागो ब्राह्मणेभ्यो ह्यमन्यत।।

वार्क्षाश्च यूपा यावन्त अश्वमेधे महामखे।
ते तथैव पुनश्चान्ये तावन्तः काञ्चनाभवन्।।

भक्ष्यान्नपाननिचयाः पर्वताः क्रोशमुच्छ्रिताः।
तस्याश्वमेधे निर्वृत्ते राज्ञः शिष्टास्त्रयोदश।।

तुष्टपुष्टजनाकीर्णां शान्तविघ्नामनामयाम्।

शशिबिन्दुरिमां भूमिं चिरं भुक्त्वा दिवं गतः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये पञ्चषष्टितमोऽध्यायः।। 65 ।।