द्रोणपर्व
अध्यायः ६४
नारद उवाच।
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्।।
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः।।
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः।।
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः।
शरण्यमीयुः शरणं तव स्म इति वादिनः।।
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम्।
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः।।
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा।
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः।।
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः।
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च।।
सूपान्मैरेयकापूपान्रागषाडवपानकान्।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च।।
घृतं मधु पयस्तोयं दधीनि रसवन्ति च।
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते।।
मदनीयानि पापानि विदित्वा चात्मनः सुखम्।
अपिबन्त यथाकामं पानपा गीतवादितैः।।
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः।।
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत्।
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम्।।
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान्।
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान्।।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्।
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च।।
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे।।
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये चतुःषष्टितमोऽध्यायः।। 64 ।।