द्रोणपर्व
अध्यायः ६३
नारद उवाच।
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम।
`य इमां पृथिवीं जित्वा ससमुद्रां सपर्वताम्।।
शम्याप्रासेन निर्माय वेदीः सन्नतदक्षिणाः।
ईजानः क्रतुभिः पुण्यैः पर्यगच्छत्प्रदक्षिणम्'।।
राजसूयशतैरिष्ट्वा सोऽश्वमेधशतेन च।
पुण्डरीकसहस्रेण वाजपेयशतैस्तथा।।
अतिरात्रसहस्रेण चातुर्मास्यैश्च कामतः।
अग्निष्टोमैश्च विविधैः सत्रैश्च प्राज्यदक्षिणैः।।
अब्राह्मणानां यद्वित्तं पृथिव्यामस्ति किञ्चन।
तत्सर्वं परिसङ्ख्याय ततो ब्राह्मणसात्करोत्।।
सरस्वती पुण्यतमा नदीनां
तथा समुद्राः सरितः साद्रयश्च।
ईजानाय पुण्यतमाय राज्ञे
घृतं पयो दुदुहुर्नाहुषाय।।
व्यूढे देवासुरे युद्धे कृत्वा देवसहायताम्।
चतुर्धा व्यभजत्सर्वां चतुर्भ्यः पृथिवीमिमाम्।।
यज्ञैर्नानाविधैरिष्ट्वा प्रजामुत्पाद्य चोत्तमाम्।
देवयान्यां चौशनस्यां शर्मिष्ठायां च धर्मतः।।
देवारण्येषु सर्वेषु विजहारामरोपमः।
आत्मनः कामचारेण द्वितीय इव वारावः।।
यदा नाभ्यगमच्छान्तिं कामानां सर्ववेदवित्।
ततो गाथामिमां गीत्वा सदारः प्राविशद्वनम्।।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः।
नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्।।
एवं कामान्परित्यज्य ययातिर्धृतिमेत्य च।
पूरुं राज्ये प्रतिष्ठाप्य प्रयातो वनमीश्वरः।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये त्रिषष्टितमोऽध्यायः।। 63 ।।