द्रोणपर्व

अध्यायः ६२

Drona Parva (Sanskrit) · Adhyaya 62
अक्षर का आकार

नारद उवाच।

मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम।
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः।।

मृगयां विचरन्राजा तृषितः क्लान्तवाहनः।
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः।।

तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम्।
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ।।

तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम्।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै।।

मामेवायं धयत्वङ्ग इति ह स्माह वासवः।
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम्।।

मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत्।
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम्।।

ततस्तु धारां पयसो घृतस्य च महात्मनः।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्।।

अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत।
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान्।।

इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत्।
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः।।

जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम्।
असितं च नृगं चैव मान्धाता मानवोऽजयत्।।

उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति।
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते।।

सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते।।

हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम्।
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान्।।

अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः।।

भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः।
घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः।।

रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः।।

विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः।।

समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः।
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति।।

`राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः'।
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः।।

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये द्विषष्टितमोऽध्यायः।। 62 ।।