द्रोणपर्व
अध्यायः ६१
नारद उवाच।
दिलीपं चापि राजेन्द्र मृतां सृञ्जय शुश्रुम।
यस्य यज्ञशतेष्वासन्प्रयुतायुतशो द्विजाः।।
तन्त्रज्ञानार्थसम्पन्ना यज्वानः पुत्रपौत्रिणः।
`स्वच्छन्दाः पुण्यगन्धाश्च सुभक्षा हेममालिनः।
यस्य कर्माणि भूरिणि कथयन्ति मनीषिणः'।।
य इमां वसुसम्पूर्णां वसुधां वसुधाधिपः।
ईजानो वितते यज्ञे ब्राह्मणेभ्यो ह्यमन्यत।।
`राजानो वितते यज्ञे उपहारानुपाहरन्'।
दिलीपस्य तु यज्ञेषु कृतः पन्था हिरण्मयः।
तं धर्म इव कुर्वाणाः सेन्द्रा देवाः समागमन्।।
सहस्रं यत्र मातङ्गा अगच्छन्पर्वतोपमाः।
सौवर्णं चाभवत्सर्वं सदः परमभास्वरम्।।
रसानां चाभवन्कुल्या भक्ष्याणां चापि पर्वताः।
सहस्रव्यामा नृपते यूपाश्चासन्हिरण्मयाः।।
चषालप्रचषालौ च यस्य यूपे हिरण्मयौ।
नृत्यन्त्यप्सरसो यत्र षट्सहस्राणि सप्त च।।
यत्र वीणां वादयति प्रीत्या विश्वावसुः स्वयम्।
सर्वभूतान्यमन्यन्त मम वादयतीति तम्।।
रागखाण्डवभोज्यैश्च मत्ताः पतिषु शेरते।।
तदेतदद्भुतं मन्ये अन्यैर्न सदृशं नृपैः।
यदप्सु युध्यमानस्य चक्रे न परिपेततुः।।
राजानं दृढधन्वानं दिलीपं सत्यवादिनम्।
येऽपश्यन्भूरिदक्षिण्यं तेऽपि स्वर्गजितो नराः।।
पञ्च शब्दा न जीर्यन्ति दिलीपस्य निवेशने।
स्वाध्यायघोषो ज्याघोषः पिबताश्नीत खादत।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये एकषष्टितमोऽध्यायः।। 61 ।।