द्रोणपर्व
अध्यायः ५८
नारद उवाच।
शिबिमौशीनरं चापि मृतं सृञ्जय शुश्रुम।
य इमां पृथिवीं सर्वां चर्मवत्पर्यवेष्टयत्।।
साद्रिद्वीपार्णववनां रथघोषेण नादयन्।
स शिबिर्यष्टुमन्विच्छन्मुख्यः सर्वसपत्नजित्।।
तेन यज्ञैर्बहुविधैरिष्टं पर्याप्तदक्षिणैः।
अविहिंस्य जनानन्यानवाप वसु पुष्कलम्।।
सर्वमूर्धाभिषिक्तानां सम्मतः सोऽभवद्युधि।
अजयच्चाश्वमेधैर्यो विजित्य पृथिवीमिमाम्।।
निरर्गलैर्बहुफलैर्निष्ककोटिसहस्रदः।
`बिभर्ति दक्षिणा यस्य गङ्गायाः स्रोत आवृणोत्'।।
हस्त्यश्वपशुभिर्धान्यैर्मृगैर्गोजाविभिस्तथा।
विविधैः पृथिवीं पुण्यां शिबिर्ब्राह्मणसात्करोत्।।
यावत्यो वर्षतो धारा यावत्यो दिवि तारकाः।
यावत्यः सिकता गाङ्ग्यो यावन्मेरोर्महोपलाः।।
उदन्वति च यावन्ति रत्नानि प्राणिनोऽपि च।
तावतीरददद्गा वै शिबिरौशीनरोऽध्वरे।।
नोद्यन्तारं धुरस्तस्य कञ्चिदन्यं प्रजापतिः।
भूतं भव्यं भवन्तं वा नाध्यगच्छन्नरोत्तमम्।।
तस्यासन्विविधा यज्ञाः सर्वकामैः समन्विताः।
हेमयूपासनगृहा हेमप्राकारतोरणाः।।
शुचिस्वाद्वन्नपानं च ब्राह्मणाः प्रयुतायुताः।
नानाभक्ष्यैः प्रियकथाः पयोदधिमहाहदाः।।
तस्यासन्यज्ञवाटेषु नद्यः शुभ्रान्नपर्वताः।
पिबत स्नात खादध्वमिति यत्रोच्यते जनैः।।
यस्मै प्रादाद्वरं रुद्रस्तुष्टः पुण्येन कर्मणा।
अक्षयं ददतो वित्तं श्रद्धा कीर्तिस्तथा क्रियाः।।
यथोक्तमेव भूतानां प्रियत्वं स्वर्गमुत्तमम्।
एताँल्लब्ध्वा वरानिष्टाञ्शिबिः काले दिवं गतः।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये अष्टपञ्चाशत्तमोऽध्यायः।। 58 ।।