द्रोणपर्व

अध्यायः ५७

Drona Parva (Sanskrit) · Adhyaya 57
अक्षर का आकार

नारद उवाच।

अङ्गं च पौरवं वीरं मृतं सृञ्जय शुश्रुम।
सहस्रं यः सहस्राणां श्वेतानश्वानवासृजत्।।

तस्याश्वमेधे राजर्षेर्देशाद्देशात्समीयुषाम्।
शिक्षाक्षरविधिज्ञानां नासीत्सङ्ख्या विपश्चिताम्।।

वेदविद्याव्रतस्नाता वदान्याः प्रियदर्शनाः।
सुभिक्षाच्छादनगृहाः सुशय्यासनभोजनाः।।

नटनर्तकगन्धर्वैः पूर्णकैर्वर्धमानकैः।
नित्योद्योगैश्च क्रीडद्भिस्तत्र स्म परिहर्षिताः।।

यज्ञे यज्ञे यथाकालं दक्षिणाः सोऽत्यकालयत्।
द्विपान्दशसहस्राख्यानदात्काञ्चनसंवृतान्।।

यः सहस्रं सहस्राणि कन्या हेमविभूषिताः।।
धूर्युजाश्वगजारूढाः सगृहक्षेत्रगोशताः।

शतं शतसहस्राणि स्वर्णमालानथर्षभान्।।
गवां सहस्रानुचरान्दक्षिणामत्यकालयत्।

हेमशृङ्ग्यो रौप्यखुराः सवत्साः कांस्यदोहनाः।।
दासीदासखरोष्ट्रांश्च प्रादादाजाविकं बहु।

रत्नानां विविधानां च विविधांश्चान्नपर्वतान्।।
तस्मिन्संवितते यज्ञे दक्षिणामत्यकालयत्।

तत्रास्य गाथा गायन्ति ये पुराणविदो जनाः।।
`अङ्गस्य यजमानस्य अपि विष्णुपदे वयम्।

अमाद्यदिन्द्रुः सोमेन दक्षिणाभिर्द्विजातयः।
देवमानुषगन्धर्वांश्चात्यरोचन्त दक्षिणाः'।।

अङ्गस्य यजमानस्य स्वधर्माधिगताः शुभाः।
गुणोत्तरास्तु क्रतवस्तस्यासन्सार्वकामिकाः।।

स चेन्ममार सृञ्जय चतुर्भद्रतस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये सप्तपञ्चाशत्तमोऽध्यायः।। 57 ।।