द्रोणपर्व
अध्यायः ५९
नारद उवाच।
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम।
यं प्रजा अन्वमोदन्त पिता पुत्रमिवौरसम्।
असङ्ख्येया गुणा यस्मिन्नासन्नमिततेजसि।।
यश्चतुर्दशवर्षाणि निदेशात्पितुरच्युतः।
वने वनितया सार्धमवसल्लक्ष्मणाग्रजः।।
जघान च जनस्थाने राक्षसान्मनुजर्षभः।
तपस्विनां रक्षणार्थं सहस्राणि चतुर्दश।।
तत्रैव वसतस्तस्य रावणो नाम राक्षसः।
जहार भार्यां वैदेहीं सम्मोह्यैनं सहानुजम्।।
`रामो हृतां राक्षसेन भार्यां श्रुत्वा जटायुषः।
आतुरः शोकसन्तप्तो रामोऽगच्छद्धरीश्वरम्।।
तेन रामः सुसङ्गम्य वानरैश्च महाबलैः।
आजगामोदधेः पारं सेतुं कृत्वा महार्णवे।।
तत्र हत्वा तु पौलस्त्यान्ससुहृद्गणबान्धवान्।
मायाविनं महाघोरं रावणं लोककण्टकम्'।।
सुरासुरैरवध्यं तं देवब्राह्मणकण्टकम्।
जघान स महाबाहुः पौलस्त्यं सगणं रणे।।
`हत्वा तत्र रिपुं सङ्ख्ये भार्यया सह सङ्गतः।
स च लङ्केश्वरं चक्रे धर्मात्मानं विभीषणम्।।
भार्यया सह संयुक्तस्ततो वानरसेनया।
अयोध्यामागतो वीरः पुष्पकेण विराजता।।
तत्र राजन्प्रविष्टः सन्नयोध्यायां महायशाः।
मातॄर्वयस्यान्सचिवानृत्विजः सपुरोहितान्।।
शुश्रूषमाणः सततं मन्त्रिभिश्चाभिषेचितः।
विसृज्य हरिराजानं हनुमन्तं सहाङ्गदम्।।
भ्रातरं भरतं वीरं शत्रुघ्नं चैव लक्ष्मणम्।
पूजयन्परया प्रीत्या वैदेह्या चाभिपूजितः।।
दशवर्षसहस्राणि दशवर्षशतानि च।
चतुःसगारपर्यन्तां पृथिवीमन्वशासत।।
अश्वमेधशतैरीजं क्रतुभिर्भूरिदक्षिणैः।
यश्च विप्रप्रसादेन सर्वकामानवाप्य च'।।
सम्प्राप्य विधिवद्राज्यं सर्वभूतानुकम्पनः।
`सर्वद्वीपानवष्टभ्य प्रजा धर्मेण पालयन्'।।
स निर्गलं मुख्यतममश्वमेधशतं प्रभुः।
आजहार सुरेशस्य हविषा मुदमाहरन्।
अन्यैश्च विविधैर्यज्ञैरीजे बहुगुणैर्नृपः।।
क्षुत्पिपासेऽजयद्रामः सर्वरोगांश्च देहिनाम्।
सततं गुणसम्पन्नो दीप्यमानः स्वतेजसा।।
अतिसर्वाणि भूतानि रामो दाशरथिर्बभौ।
ऋषीणां देवतानां च मानुषाणां च सर्वशः।
पृथिव्यां सह वासोऽभूद्रामे राज्यं प्रशासति।।
नाहीयत तदा प्रामः प्राणिनां न तदा व्यथा।
प्राणापानौ समावास्तां रामे राज्यं प्रशासति।।
पर्यदीप्यन्त तेजांसि तदाऽनर्थाश्च नाभवन्।
दीर्घायुषः प्रजाः सर्वा युवा न म्रियते तदा।।
वेदैश्चतुर्भिः सुप्रीताः प्राप्नुवन्ति दिवौकसः।
हव्यं कव्यं च विविधं निष्पूर्तं हुतमेव च।।
अदंशमशका देशा नष्टव्यालसरीसृपाः।
नाप्यु प्राणभृतां मृत्युर्नाकाले ज्वलनोऽदहत्।।
अधर्मरुचयो लुब्धा मूर्खा वा नाभवंस्तदा।
शिष्टेष्टप्राज्ञकर्माणः सर्वे वर्णास्तदाऽभवन्।।
स्वधां पूजां च रक्षोभिर्जनस्थाने प्रणाशिताम्।
प्रादान्निहत्य रक्षांसि पितृदेवेभ्य ईश्वरः।।
सहस्रपुत्राः पुरुषा दशवर्षशतायुषः।
न च ज्येष्ठाः कनिष्ठेभ्यस्तदा श्राद्धानि कुर्वते।।
श्यामो युवा लोहिताक्षो मत्तमातङ्गविक्रमः।
आजानुबाहुः सुभुजः सिंहस्कन्धो महाबलः।।
दशवर्षसहस्राणि दशवर्षशतानि च।
सर्वभूतमनःकान्तो रामो राज्यमकारयत्।।
रामो रामो राम इति प्रजानामभवत्कथा।
रामभूतं जगदभूद्रामे राज्यं प्रशासति।।
चतुर्विधाः प्रजा रामः स्वर्गं नीत्वा दिवं गतः।
आत्मेच्छया प्रतिष्ठाप्य राजवंशमिहाष्टधा।।
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
षोडशराजकीये एकोनषष्टितमोऽध्यायः।। 59 ।।