द्रोणपर्व
अध्यायः ५२
सञ्जय उवाच।
एवं विलपमाने तु कुन्तीपुत्रे युधिष्ठिरे।
कृष्णद्वैपायनस्तत्र आजगाम महानृषिः।।
अथ दृष्ट्वा महात्मानं पाण्डुपुत्रो युधिष्ठिरः।
युक्तासनो दीनमनाः पूजां चक्रे महात्मनः।।
अर्चयित्वा यथान्यायमुपविष्टं युधिष्ठिरः।
अब्रवीच्छोकसन्तप्तो भ्रातुः पुत्रवधेन च।।
अधर्मयुक्तैर्बहुभिः परिवार्य महारथैः।
युध्यमानो महेष्वासैः सौभद्रो निहतो रणे।।
बालश्च बालबुद्धिश्च वीरश्च परवीरहा।
अनुपायेन सङ्ग्रामे युध्यमानो विनाशितः।।
मया प्रोक्तः स सङ्ग्रामे द्वारं सञ्जनयस्व नः।
प्रविष्टेऽभ्यन्तरे तस्मिन्सैन्धवेन निवारिताः।।
ननु नाम समं युद्धमेष्टव्यं युद्धजीविभिः।
इदं चैवासमं युद्धमीदृशं यत्कृतं परैः।।
तेनास्मि भृशसन्तप्तः शोकबाष्पसमाकुलः।
शमं नैवाधिगच्छामि चिन्तयानः पुनः पुनः।।
सञ्जय उवाच।
तं तथा विलपन्तं वै शोकव्याकुलमानसम्।
उवाच सान्त्वयन्व्यासो युधिष्ठिरमिदं वचः।।
व्यास उवाच।
युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद।
व्यसनेषु न मुह्यन्ति त्वादृशा भरतर्षभ।।
स्वर्गमेष गतः शूरः शत्रून्हत्वा बहून्रणे।
अबालसदृशं कर्म कृत्वा वै पुरुषोत्तमः।।
अनतिक्रमणीयो वै विधिरेष युधिष्ठिर।
देवदानवगन्धर्वान्मूत्युर्हरति भारत।।
युधिष्ठिर उवाच।
इमे वै पृथिवीपालाः शेरते पृथिवीतले।
निहताः पृतनामध्ये मृतसंज्ञा महाबलाः।।
नागायुतबलाश्चान्ये वायुवेगबलास्तथा।
त एते निहताः सङ्ख्ये तुल्यरूपा नरैर्नराः।।
नैषां पश्यामि हन्तारं प्राणिनां संयुगे क्वचित्।
विक्रमेणोपसम्पन्नास्तपोबलसमन्विताः।।
जेतव्यमिति चान्योन्यं येषां नित्यं हृदि स्थितम्।
अथ चेमे हताः प्राज्ञाः शेरते विगतायुषः।।
मृता इति च शब्दोयं वर्तते च ततोऽर्थवत्।
इमे मृता महीपालाः प्रायशो भीमविक्रमाः।।
निश्चेष्टा निरभीमानाः शूराः शत्रुवशंगताः।
राजपुत्राश्च संरब्धा वैश्वानरमुखं गताः।।
अत्र मे संशयः प्राप्तः कुतः संज्ञा मृता इति।
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिमाः प्रजाः।
हरत्यमरसङ्काश तन्मे ब्रूहि पितामह।।
सञ्जय उवाच।
तं तथा परिपृच्छन्तं कुन्तीपुत्रं युधिष्ठिरम्।
आश्वासनमिदं वाक्यमुवाच भगवानृषिः।।
व्यास उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
अकम्पनस्य कथितं नारदेन पुरा नृप।।
स चापि राजा राजेन्द्र पुत्रव्यसनमुत्तमम्।
अप्रसह्यतमं लोके प्राप्तवानिति नः श्रुतम्।।
तदहं सम्प्रवक्ष्यामि मृत्योः प्रभवमुत्तमम्।
ततस्त्वं मोक्ष्यसे दुःखात्स्नेहबन्धनसंश्रयात्।।
समस्तपापराशिघ्नं शृणु कीर्तयतो मम।
धन्यमाख्यानमायुष्यं शोकघ्नं पुष्टिवर्धनम्।।
पवित्रमरिसङ्घघ्नं पङ्गलानां च मङ्गलम्।
यथैव वेदाध्ययनमुपाख्यानमिदं तथा।।
श्रवणीयं महाराज प्रातर्नित्यं नृपोत्तमैः।
पुत्रानायुष्मतो राज्यमीहमानैः श्रियं तथा।।
पुरा कृतयुगे तात आसीद्राजा ह्यकम्पनः।
स शत्रुवशमापन्नो मध्ये सङ्ग्राममूर्धनि।
`योधयामास बलवान्बद्धश्चासीदकम्पनः'।।
तस्य पुत्रो हरिर्नाम नारायणसमो बले।
श्रीमान्कृतास्त्रो मेधावी युधि शक्रोपमो बली।।
`स दृष्ट्वा पितरं युद्धे तदवस्थं महाद्युतिः।
अचिन्तयित्वा मरणं शत्रुमध्यं ततोऽविशत्।।
स शत्रुभिः परिवृतो बहुधा रणमूर्धनि।
योधयामास तान्सर्वान्सर्वास्त्रकुशलो बली।।
वर्षन्बाणसहस्राणि शत्रुष्वमितविक्रमः।
पदातिरथनागाश्वान्प्रममाथ महाबलः।।
स शरैराचितश्चक्रैर्गदाभिर्मुसलैरपि।
मृद्गन्रथसहस्राणि पदातीन्वाजिवारणान्।।
परानीकं विभिद्याजौ मोक्षयित्वा च तं नृपम्।
पुनरेवाकरोद्युद्धं शत्रुमध्यगतो बली।।
ततस्ते रथिनः सर्वे समेत्य पुनराहवे।
जघ्नुस्तं परिवार्यैकं तोमरैरिव कुञ्जरम्'।।
स कर्म दुष्करं कृत्वा सङ्ग्रामे शत्रुतापनः।
शत्रुभिर्निहतः सङ्ख्ये पृतानायां युधिष्ठिर।।
द्विषद्भिर्निहतं दृष्ट्वा प्रियं पुत्रमकम्पनः।
अमर्षजनितक्रोध आहवात्सहसाऽऽगतः।।
स राजा प्रेतकृत्यानि तस्य कृत्वा शुचान्वितः।
शोचन्नहनि रात्रौ च नालभत्सुखमात्मनः।।
तस्य शोकं विदित्वा तु पुत्रव्यसनसम्भवम्।
आजगामाथ देवर्षिर्नारदोऽस्य समीपतः।।
स तु राजा महाभागो दृष्ट्वा देवर्षिसत्तमम्।
पूजयित्वा यथान्यायं कथामकथयत्तदा।।
तस्य सर्वं समाचष्ट यथावृत्तं युधिष्ठिर।
शत्रुभिर्विजयं सङ्ख्ये पुत्रस्य च वधं तथा।।
अकम्पन उवाच।
मम पुत्रो महावीर्य इन्द्रविष्णुसमद्युतिः।
शत्रुभिर्बहुभिः सङ्ख्ये पराक्रम्य हतो बली।।
शृणु मे प्राणिनां चापि मृत्युः प्रभवते किल।
क एष मृत्युर्भगवन्किंवीर्यबलपौरुषः।
एतदिच्छामि तत्त्वेन श्रोतुं मतिमतां वर।।
व्यास उवाच।
तस्य तद्वचनं श्रुत्वा नारदो वरदः प्रभुः।
आख्यानमिदमाचष्ट पुत्रशोकापहं महत्।।
नारद उवाच।
शृणु राजन्महाबाहो आख्यानं बहुविस्तरम्।
यथावृत्तं श्रुतं चैव मयाऽपि वसुधाधिप।।
प्रजाः सृष्टा तदा ब्रह्मा आदिसर्गे पितामहः।
असंहृतं महातेजा दृष्ट्वा जगदिदं प्रभुः।।
तस्य चिन्ता समुत्पन्ना संहारं प्रति पार्थिव।
चिन्तयन्न ह्यसौ देव संहारं वसुधाधिप।।
तस्य रोषान्महाराज मुखेभ्योऽग्निरजायत।
तेन सर्वा दिशो व्याप्ताः सान्तर्देशा दिधक्षता।।
ततो दिवं भुवं चैव ज्वालामालासमाकुलम्।
चारचरं जगत्सर्वं ददाह भगवान्प्रभुः।।
ततो हतानि भूतानि चराणि स्थावराणि च।
महता क्रोधवेगेन त्रासयन्निव वीर्यवान्।
ततो रुद्रो जटी स्याणुर्निशाचरपतिर्हरः।
जगाम शरणं देवं ब्रह्माणं परमेष्ठिनम्।।
तस्मिन्नापतिते स्थाणौ प्रजानां हितकाम्यया।
अब्रवीत्परमो देवो ज्वलन्निव महामुनिः।।
किं कर्म कामं कामार्ह कामाज्जातोऽसि पुत्रक।
करिष्यामि प्रियं सर्वं ब्रूहि स्थाणो यदिच्छसि।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
अभिमन्युवधपर्वणि द्विपञ्चाशत्तमोऽध्यायः।। 52 ।।