द्रोणपर्व

अध्यायः ५१

Drona Parva (Sanskrit) · Adhyaya 51
अक्षर का आकार

सञ्जय उवाच।

हते तस्मिन्महावीर्ये सौभद्रे रथयूथपे।
विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः।।

उपोपविष्टा राजानं परिवार्य युधिष्ठिरम्।
तदेव युद्धं ध्यायन्तः सौभद्रगतमानसाः।।

ततो युधिष्ठिरो राजा विललाप सुदुःखितः।
ततो युधिष्ठिरो राजा विललाप सुदुःखितः।

अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे।।

युधिष्ठिर उवाच।

एनं जित्वा कृपं शल्यं राजानं च सुयोधनम्।
द्रोँणं द्रौणिं महेष्वासं तथैवान्यान्महारथान्।।

द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया।
`हत्वा शत्रुगणान्वीरानेष शेते महारथः।।

कृतास्त्रयु द्धकुशलान्महेष्वासान्महाबलान्।
कुलशः पूणैर्युक्ताञ्छूरान्विख्यातपौरुषान्।।

द्रोणेन र्प्राहेतं व्यूहमभेद्यममरैरपि।
अदृष्टपूर्वमस्माभिः पद्मं चक्रायुधप्रियः'।।

भित्त्वा मध्यं प्रविष्टोऽसौ गोमध्यमिव केसरी।
`विक्रीडितं रणे तेन निघ्नता वै परान्वरान्'।।

यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे।
प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः।।

अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः।
क्षिप्रं ह्यभिमुखः सङ्ख्ये विसंज्ञो विमुखीकृतः।।

स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम्।
प्राप्य दौःशासनिं कार्ष्णिः प्राप्तो वैवस्वतक्षयम्।।

कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम्।
सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम्।।

`हतवत्सां यथा धेनुं तद्दृर्शनकृतोन्मुखीम्'।
किंस्विद्वक्ष्याम्यपेतार्थमक्लिष्टमसमञ्जसम्।
तावुभौ प्रतिवक्ष्यामि हृषीकेशधनञ्जयौ।।

अहमेव सुभद्रायाः केशवार्जुनयोरपि।
प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम्।।

न लुब्धो बुध्यते दोषाँल्लोभान्मोहात्प्रवर्तते।
मधुलिप्सुर्हि नापश्यं प्रपातमहमीदृशम्।।

यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च।
भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः।।

कथं हि बालस्तरुणो युद्धानामविशारदः।
सदश्व इव सम्बाधे विषमे क्षेममर्हति।।

नो चेद्धि वयमप्येनं महीमनुशयीमहि।
बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा।।

अलुब्धो मितमान्हीमान्क्षमावान्रूपवान्बली।
वपुष्मान्मानकृद्वीरः प्रियः सत्यपराक्रमः।।

यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः।
निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान्।।

महेन्द्रशत्रवो येन हिरण्यपुरवासिनः।
अक्ष्णोर्निमेषमात्रेण पौलोभाः सगणा हताः।।

परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः।
तस्यास्माभिर्न शकितस्त्रातुमप्यात्मजो बली।।

भयं तु सुमहत्प्राप्तं धार्तराष्ट्रान्महाबलान्।
पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति।।

क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयकारकः।
व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितं।।

न मे जयः प्रीतिकरो न राज्यं
न चामरत्वं न सुरैः सलोकता।
इमं समीक्ष्याप्रतिवीर्यपौरुषं
निपातितं देववरात्मजात्मजम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
एकपञ्चाशत्तमोऽध्यायः।। 51 ।।