द्रोणपर्व

अध्यायः ५०

Drona Parva (Sanskrit) · Adhyaya 50
अक्षर का आकार

सञ्जय उवाच।

वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः।
निवेशायाभ्युपायामः सायाह्ने रुधिरोक्षिताः।।

निरीक्षमाणास्तु वयं परे चायोधनं शनैः।
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः।।

ततो निशाया दिवसस्य चाशिवः
शिवारुतैः सन्धिरवर्तताद्भुतः।
कुशेशयापीडनिभे दिवाकरे
विलम्बमानेऽस्तमुपेत्य पर्वतम्।।

वरासिशक्त्यृष्टिवरूथचर्मणां
विभूषणानां च समाक्षिपन्प्रभाः।
दिवं च भूमिं च समानयन्निव
प्रियां तनुं भानुरुपैति पावकम्।।

महाभ्रकूटाचलशृङ्गसन्निभै--
र्गजैरनेकैरिव वज्रपातितैः।
सवैजयन्त्यङ्कुशवर्मयन्तृभि--
र्निपातितैर्नष्टगतिश्चिता क्षितिः।।

हतेश्वरैश्चूर्णितचक्रकूबरै--
र्हताश्वसूतैर्विपताककेतुभिः।
महारथैर्भूः शुशुभे विचूर्णितैः
पुरैरिवामित्रहतैर्नराधिप।।

रथाश्वबृन्दैः सहसादिभिर्हतैः
प्रविद्धभाण्डाभरणैः पृथग्विधैः।
निरस्तजिह्वादशनान्त्रलोचनै--
र्धरा बभौ घोरविरूपदर्शना।।

प्रविद्धवर्माभणाम्बरायुधा
विपन्नहस्त्यश्वरथानुगा नराः।
महार्हशय्यास्तरणोचितास्तदा
क्षितावनाथा इव शेरते हताः।।

अतीव हृष्टाः श्वशृगालवायसा
बकाः सुपर्णाश्च वृकास्तरक्षवः।
वयांस्यसृक्पान्यथ रक्षसां गणाः
पिशाचसङ्घाश्च सुदारुणा रणे।।

त्वचो विनिर्भिद्य पिबन्वसामसृक्
तथैव मज्जाः पिशितानि चाश्नुवन्।
वपां विलुम्पन्ति हसन्ति गान्ति च
प्रकर्षमाणाः कुणपान्यनेकशः।।

शरीरसङ्घाटवहा ह्यसृग्जला
रथोडुपा कुञ्जरशैलसङ्कटा।
मनुष्यशीर्षोपलमांसकर्दमा
प्रविद्धनानाविधशस्त्रमालिनी।।

भयावहा वैतरणीव दुस्तरा
प्रवर्तिता योधवरैस्तदा नदी।
उवाह मध्येन रणाजिरे भृशं
भयावहा दीनमृतप्रवाहिनी।।

पिबन्ति च स्नान्ति च यत्र दुर्दृशाः
पिशाचसङ्घास्तु नदन्ति भैरवाः।
सुनन्दिताः प्रणभृतां क्षयंकराः
समानभक्षाः श्वसृगालपक्षिणः।।

तथा तदायोधनमुग्रदर्शनं
निशामुखे पितृपतिराष्ट्रवर्धनम्।
निरीक्षमाणः शनकैर्जहुर्नराः
समुत्थिता नृत्तकबन्धसङ्कुलम्।।

अपेतविध्वस्तमहार्हभूषणं
निपातितं शक्रसमं महाबलम्।
रणेऽभिमन्युं ददृशुस्तदा जना
व्यपोढहव्यं सदसीव पावकम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धावहारे पञ्चाशत्तमोऽध्यायः।। 50 ।।