द्रोणपर्व
अध्यायः ४९
सञ्जय उवाच।
विष्णोः स्वसुर्नन्दकरः स विष्ण्वायुधभूषणः।
रराजातिरथः सङ्ख्ये जनार्दन इवापरः।।
मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्।
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि।।
`यदि पाणितलादेतच्चक्रं मुञ्चेत फाल्गुनिः।
वरदानान्मातुलस्य विष्णोश्चक्रमिवापतेत्'।।
तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा।
महारथस्ततः कार्ष्मिः स जग्राह महागदाम्।।
विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः।
अभिमन्युर्गदापाणिरश्वत्थामानमार्दयत्।।
स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव।
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः।।
तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी।
शराचिताङ्गः सौभद्रः श्वाविद्वत्समदृश्यत।।
ततः सुबलदायादं कालिकेयमपोथयत्।
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्।।
पुनश्चैव वसातीयाञ्जघान रथिनो दश।
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्।
दौःशासनिरथं साश्वं गदया समपोथयत्।।
ततो दौःशसनिः क्रुद्धो गदामुद्यम्य मारिष।
अभिदुद्राव सौभद्रं तिष्ठतिष्ठेति चाब्रवीत्।।
तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ।
भ्रातृव्यौ सम्प्रजहाते पुरेव त्र्यम्बकान्धकौ।।
तावन्योन्यं गदाग्राभ्यामाहत्य पतितौ क्षितौ।
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ।।
दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः।
उत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्।।
गदावेगेन महता व्यायामेन च मोहितः।
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा।।
एवं विनिहतो राजन्नेको बहुभिराहवे।
क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः।।
अशोभत हतो वीरो व्याधैर्वनगजो यथा।
तं तथा पतितं शूरं तावकाः पर्यवारयन्।।
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये।
विमृद्व्य नगशृङ्गाणि सन्निवृत्तमिवानिलम्।।
अस्तिं गतमिवादित्यं तप्त्वा भारत वाहिनीम्।
उपप्लुतं यथा सोमं संशुष्कमिव सागस्म्।।
पूर्णचन्द्राभवदनं काकपक्षवृतालिकम्।
तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः।
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः।।
आसीत्परमको हर्षस्तावकानां विशाम्पते।
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्।।
अन्तरिक्षे च भूतानि प्राक्रोशन्त विशाम्पते।
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्।।
द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः।
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः।।
तस्मिन्विनिहते वीरे बह्वशोभत मेदिनी।
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी।।
रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता।
उत्तमाङ्गैश्च शूराणां भ्राजमानैः सकुण्डलैः।।
विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता।
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः।।
रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः।
खङ्गैः सुनिशितैः पीतैर्निर्मुक्तैर्भुजगैरिव।।
चापैश्च विविधैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः।
विविधैश्चायुधैश्चान्यैः संवृता भूरशोभत।।
`निष्टनद्भिरतीवान्यैरुद्वहद्रुधिरस्रवैः।
नरैः पतद्भिः पतितैरवनी स्वधिकं बभौ।।
वाजिभिश्चापि निर्जीवैः श्वसद्भिः शोणितोक्षितैः।
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः।।
साङ्कुशैः समहामात्रैः सर्वमायुधकेतुभिः।
पर्वतैरिव विध्वस्तैर्विशिखैर्मथितैर्गजैः।।
पृथिव्यानुकीर्णैश्च अश्वसारथियोधिभिः।
हदैरिव प्रक्षुभितैर्हृतनागै रथोत्तमैः।।
पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः।
भीरूणां त्रासजननी घोररूपाऽभवन्मही।।
तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्।
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा।।
अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने।
सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः।।
दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते।
अजातशत्रुस्तान्वीरानिदं वचनमब्रवीत्।।
स्वर्गमेष गतः शूरो यो हतो न पराङ्मुखः।
संस्तम्भयत माभैष्ट विजेष्यामो रणे रिपून्।।
इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः।
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्।।
युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे रिपून्।
पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरभ्ययात्।।
हत्वा दशसहस्राणि कौसल्यं च महारथम्।
कृष्णार्जुनसमः कार्ष्णिः शक्रलोकं गतो ध्रुवम्।।
रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः।
अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत्।
गतः पुण्यकृतां लोकाञ्शाश्वतान्पुण्यनिर्जितान्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे एकोनपञ्चाशत्तमोऽध्यायः।। 49 ।।