द्रोणपर्व

अध्यायः ४६

Drona Parva (Sanskrit) · Adhyaya 46
अक्षर का आकार

धृतराष्ट्र उवाच।

यथा वदसि मे सूत एकस्य बहुभिः सह।
सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः।।

अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम्।
किन्तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः।।

दुर्योधने च विमुखे राजपुत्रशते हते।
सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः।।

सञ्जय उवाच।

संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षणाः।
पालयनकृतोत्साहा निरुत्साहा द्विष़ज्जये।।

हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान्।
उत्सृज्योत्सृज्य सञ्जग्मुस्त्वरयन्तो हयद्विपान्।।

तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः।
कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः।।

अभ्यधावन्सुसङ्क्रुद्धाः सौभद्रमपराजितम्।
ते तु पौत्रेण ते राजन्प्रायशो विमुखीकृताः।
`सौभद्रेण महाराज शक्रप्रतिमतेजसा'।।

एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः।
इष्वस्त्रविन्महातेजा लक्ष्मणोऽर्जुनिमभ्ययात्।।

तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत।
अनुदुर्योधनं चान्ये न्यवर्तन्त महारथाः।।

तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः।
स तु तान्प्रममाथैको विष्वग्वातो यथाम्बुदान्।।

पौत्रं तव च दुर्धर्षं लक्ष्मणं प्रियदर्शनम्।
पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम्।।

अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्।
आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम्।
`सिंहशाबो वने शश्वत्पुण्डरीकशिशुं यथा'।।

लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा।
शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पयत्।।

सङ्क्रुद्धौ वै महाराज दण्डाहत इवोरगः।
पौत्रस्तव महाराज तव पौत्रमभाषत।।

सुदृष्टः क्रियतां लोको ह्यमुं लोकं गमिष्यसि।
पश्यतां बान्धवानां त्वां नयामि यमसादनम्।।

एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा।
उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम्।।

स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम्।
सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम्।।

`पौत्रस्तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम्।
पितुः समीपे तिष्ठन्तं प्राहिणोद्यमसादनम्।।

अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम्'।
लक्ष्मणां निहतं दृष्ट्वा हाहेत्युच्चुक्रुशुर्जनाः।।

ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते।
हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः।।

ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्।।

तांस्तु विद्धा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः।
वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम्।।

आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः।
कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान्।
तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते।।

ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः।
यथा वायुर्नित्यगतिर्जलदाञ्शतशोऽम्बरे।।

ततः क्रुद्धाः शरव्रातै राजानः समवारयन्।
अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः।
परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः।।

तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमयोधयत्।
शरौघेणाप्रमेयेण त्वरमाणो जिघौसया।।

सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः।
सच्छत्रध्वजयन्तारं रथं चाश्वान्न्यपातयत्।।

कुलशीलश्रुतिबलैः कीर्त्या चास्त्रबलेन च।
युक्ते तस्मिन्हते वीराः प्रायशो विमुखाऽभवन्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे षट्‌चत्वारिंशोऽध्यायः।। 46 ।।