द्रोणपर्व
अध्यायः ४५
सञ्जय उवाच।
आददानस्तु शूराणामायुंष्यभवदार्जुनिः।
अन्तकः सर्वभूतानां प्राणान्काल इवागते।।
स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली।
अभिमन्युस्तदानीकं लोडयन्समदृश्यत।।
प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः।
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणः।।
सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः।
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्।।
अहंपूर्वमहंपूर्वमिति क्षत्रियपुङ्गवाः।
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्।।
क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्।
जग्राह तिमिरासाद्य क्षुद्रमत्स्यानिवार्णिवे।।
ये केचन गतास्तस्य समीपमपलायिनः।
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः।।
महाग्रहगृहीतेव वातवेगभयार्दिता।
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे।।
अथ रुक्मरथो नाम मद्रेश्वरसुतो बली।
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत्।।
अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते।
अहमेनं ग्रीहष्यामि जीवग्राहं न संशयः।।
एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्।
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता।।
सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्।
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः।।
स तस्येष्वसनं छित्त्वा फाल्गुनिः सव्यदक्षिणौ।
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्।।
दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्।
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना।।
सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः।
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः।।
तालमात्राणि चापानि विकर्षन्तो महाबलाः।
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन्।।
शूरैः निक्षाबलोपेतैस्तरुणैरत्यमर्षणैः।
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम्।।
छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्।
वैवस्वतस्य भवनं गतं ह्येममन्यत।।
सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैः सुतेजनैः।
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः।।
ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष।
आचितं समपश्याम श्वाविधं शललैरिव।।
स गाढविद्धः क्रुद्धश्च तोत्रैर्गज इवार्दितः।
गान्धर्वमस्त्रमायच्छद्रथमायां च भारत।।
अर्जुनो तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्।
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्।।
एकधा शतधा राजन्दृश्यते स्म सहस्रधा।
अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन्।।
रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः।
बिभेद शतधा राजञ्शरीराणि महीक्षिताम्।।
प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः।
राजन्प्रापुरसुं लोकं शरीराण्यवनिं ययुः।।
धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्।
सिरांसि च शितैर्बाणैस्तेषां चिच्छेद फाल्गुनिः।।
चूतारामो यथा भग्नः पञ्चवर्षः फलोपगः।
राजपुत्रशतं तद्वत्सौभद्रेण निपातितम्।।
क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान्।
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्।।
रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्।
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः।।
तयोः क्षणमिवापूर्वः सङ्ग्रामः समपद्यत।
अथाभवत्ते विमुखः पुत्रः शरशताहतः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिसयुद्धे पञ्चत्वारिंशोऽध्यायः।। 45 ।।