द्रोणपर्व

अध्यायः ४७

Drona Parva (Sanskrit) · Adhyaya 47
अक्षर का आकार

धृतराष्ट्र उवाच।

तथा प्रविष्टं तरुणं सौभद्रमपराजितम्।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम्।।

आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः।
प्लवमानमिवाकाशे के शूराः समवारयन्।।

सञ्जय उवाच।

अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः।
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः।।

तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्।।

दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्।।

सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः।
तालमात्राणि चापानि विकर्षन्तो महाबलाः।।

तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्।
व्यदृष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा।।

द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम्।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः।।

रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः।।

कर्णं च कर्णिना कर्णे पीतेन च शितेन च।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा।।

पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी।
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।।

ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्।
पुत्राणां तव वीराणां पश्यतामवधीद्बली।।

तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्।
वरंवरममित्राणामारुजन्तमभीतवत्।।

स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः।।

षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्।।

स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः।
प्रत्यविध्यन्महातेजा बलवानपकारिणम्।।

तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्।
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे।।

कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम्।
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश।।

तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः।।

तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि।
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ।।

अथ कोसलराजस्तु विरथः खङ्ग्रचर्मधृत्।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्।।

स कोसलानामधिपं राजपुत्रं बृहद्बलम्।
हृदि विव्याध वाणेन स भिन्नहृदयोऽपतत्।।

बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम्।
सृजतामशिवा वाचः खङ्गकार्मुकधारिणाम्।।

तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रोयदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः।। 47 ।।