द्रोणपर्व
अध्यायः ४२
धृतराष्ट्र उवाच।
बालमत्यन्तसुखिनं स्वबाहुबलदर्पितम्।
युद्धेष्वकुशलं वीरं कुलपुत्रं तनुत्यजम्।।
गाहमानमनीकानि सदश्वैश्च त्रिहायनैः।
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्बली।।
सञ्जय उवाच।
युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ।
धृष्टद्युम्नो विराटश्च द्रुपदश्च सङ्केकयः।।
धृष्टकेतुश्च संरब्धो मात्स्याश्चाभ्यपतन्रणे।
तेनैव तु पथा यान्तः पितरो मातुलैः सह।।
अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः।
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाऽभवन्।।
ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्।
जामाता तव तेजस्वी संस्तम्भयिषुराद्रवत्।।
सैन्धवस्य महाराज पुत्रो राजा जयद्रथः।
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्।।
उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्।
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरः।।
धृतराष्ट्र उवाच।
कतिभारमहं मन्ये सैन्धवे सञ्जयाहितम्।
यदेकः पाण्डवान्क्रुद्धान्पुप्रेप्सूनवारयत्।।
अत्यद्भुतमहं मन्ये बलं शौर्यं च सैन्धवे।
तस्य प्रब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः।।
किं जप्तं हुतमिष्टं वा किं सुतप्तमथो तपः।
`दमो वा ब्रह्मचर्यं वा सूत यच्चास्य सत्तम।।
देवं कतममाराध्य विष्णुमीशानमब्जजम्।
सिन्धुराट् तनये सक्तान्क्रुद्धान्पार्थानवारयत्।।
नैवं कृतं महत्कर्म भीष्मेणाज्ञासिषं तथा'।
सिन्धुराजो हि येनैकः पाण्डवान्समवारयत्।।
सञ्जय उवाच।
द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः।
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः।।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः।
क्षुत्पिपासातकपसहः कृशो धमनिसन्ततः।।
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्।
भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्।।
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्।
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि।।
एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः।
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्।।
पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान्।
वारयेयं रथेनैकः समस्तानिति भारत।।
एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्।
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम्।
वारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान्।।
`एकाहमिति राजेन्द्र तत्रैवान्तरधीयत'।
एवमस्त्विति देवेशमुक्त्वाबुद्ध्यत पार्थिवः।।
स तेन वरदानेन दिव्येनास्त्बलेन च।
एकः संवारयामास पाण्डवानामनीकिनीम्।।
तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्।
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्।।
दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमाहितम्।
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः।। 42 ।।