द्रोणपर्व

अध्यायः ४१

Drona Parva (Sanskrit) · Adhyaya 41
अक्षर का आकार

सञ्जय उवाच।

सोऽभ्यगच्छद्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव।।

सोऽपिध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव।।

पितृपैतामहं कर्म कुर्वाणमतिमानुषम्।
दृष्ट्वार्दितं शरैः कार्ष्मिं त्वदीया हृषिताऽभवन्।।

तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा।
शिरः प्रच्यावयामास तद्रथात्प्रापतद्भुवि।।

कर्णिकारमिवाधूतं वातेनापतितं नगात्।
`कर्णानुजं च सम्प्रेक्ष्य तावका व्यथिताऽभवन्'।
भ्रातरं निहतं दृष्ट्वा कर्णश्चासीत्पराङ्मुखः।।

विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः।
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे।।

ततस्तद्विततं सेन्यं हस्त्यश्वरथपत्तिमत्।
क्रद्धोऽभिमन्युरभिनत्तिग्मतेजा महारथः।।

कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना।
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्रवत्।।

`तिंष्ठ कर्ण महेष्वास कृप दुर्योधनेति च।
द्रोणस्य क्रोशतो राजंस्तदनीकमभज्यत'।।

शलभैरिव चाकाशं धाराभिरिव पर्वतः।
अभिमन्यो शरैश्छन्नं न प्राज्ञायत किञ्चन।।

तावकानां तु योधानां वध्यतां निशितैः शरैः।
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत।।

सौभद्रस्तु ततः शङ्खं प्रध्माय पुरुषर्षभः।।
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ।।

स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्।
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत।।

रथनागाश्वमनुजानर्दयन्निशितैः शरैः।
सम्प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम्।।

सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः।
स्वानेवाभिमुखान्ध्नन्तः प्राद्रवञ्जीवितार्थिनः।।

ते घोरा रौद्रकर्माणो विपाठा बहवः शिताः।
निघ्न्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम्।।

सायुधाः साङ्गुलित्राणाः सगदाः साङ्गदा रणे।
दृश्यन्ते बाहवश्चिन्ना हेमाभारणभूषिताः।।

शराश्चापानि खङ्गाश्च शरीराणि शिरांसि च।
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः।।

सोपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः।
अक्षैर्विमथितैश्चक्रैर्बहुधा पतितैर्युगैः।।

शक्तिचापासिभिश्चैव पतितैश्च महाध्वजैः।
चर्मचापशरैश्चैव व्यवकीर्णैः समन्तततः।।

निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते।
अगम्यरूपा पृथिवी क्षणेनासीत्सुदारुणा।।

वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्।
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः।।

स शब्दो भरतश्चेष्ठ दिशः सर्वा व्यनादयत्।।
सौभद्रश्चाद्रवत्सेनां घ्नन्वराश्वरथद्विपान्।।

कक्षमग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्।
मध्ये भारतसैन्यानामार्जुनिः प्रत्यदृश्यत।।

विचरन्तं दिशः सर्वाः प्रदिशश्चापि भारत।
तं तदा नानुपश्यामः सैन्ये च रजसाऽऽवृते।।

आददानं गजाश्वानां णां चायुंषि भारत।
क्षमेन भूयः पश्यामः सूर्यं मध्यंदिने यथा।।

अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्।
स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः।।

अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत।
`यथा पुरा वह्निसुतः सुरसैन्येषु वीर्यवान्'।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे एकचत्वारिंशोऽध्यायः।। 41 ।।