द्रोणपर्व

अध्यायः ४३

Drona Parva (Sanskrit) · Adhyaya 43
अक्षर का आकार

सञ्जय उवाच।

यन्मां पृच्छसि राजेन्द्र सिन्धुराजस्य विक्रमम्।
शृणु तत्सर्वमाख्यास्ये यथा पाण्डूनयोधयत्।।

तमूहुर्वाजिनो वश्याः सैन्धवाः साधुवाहिनः।
विकुर्वाणा बृहन्तोऽश्वाः श्वसनोपरंहसः।।

गन्धर्वनगराकारं विधिवत्कल्पितं रथम्।
तस्याभ्यशोभयत्केतुर्वाराहो राजतो महान्।।

श्वेतश्चत्रपताकाभिश्चामरव्यजनेन च।
स बभौ राजलिङ्गैस्तैस्तारापतिरिवाम्बरे।।

मुक्तावज्रमणिस्वर्णैर्भूषितं तदयस्मयम्।
वरूथं विबभौ तस्य ज्योतिर्भिः खमिवावृतम्।।

स विष्फार्य महच्चापं किरन्निषुगणान्बहून।
तत्कण्डं पूरयामास यदार्जुनिरदारयत्।।

स सात्यकिं त्रिभिर्बाणैरष्टभिश्च वृकोदरम्।
धृष्टद्युम्नं तथा षष्ट्या विराटं दशभिः शरैः।।

द्रुपदं पञ्चभिस्तीक्ष्णैः सप्तभिश्च शिखण्डिनम्।
केकयान्पञ्चविंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः।।

युधिष्ठिरं तु सप्तत्या ततः शेषानपानुदत्।
इषुजालेन महता तदद्भुतमिवाभवत्।।

अथास्य शितपीतेन भल्लेनादिश्य कार्मुकम्।
चिच्छेद प्रहसन्राजा धर्मपुत्रः प्रतापवान्।।

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्।
विव्याध दशभिः पार्थं तांश्चैवान्यांस्त्रिभिस्त्रिभिः।।

तत्तस्य लाघवं ज्ञात्वा भीमो भल्लैस्त्रिभिस्त्रिभिः।
धनुर्ध्वजं च च्छत्रं च क्षितौ क्षिप्रमपातयत्।।

सोऽन्यदादाय बलवान्सज्जं कृत्वा च कार्मुकम्।
भीमस्यापातयत्केतुं धनुरश्वांश्च मारिष।।

स हताश्वादवप्लुत्य च्छिन्नधन्वा रथोत्तमात्।
सोत्यकेराप्लुतो यानं गिर्यग्रमिव केसरी।।

ततस्त्वदीयाः संहृष्टाः साधुसाध्विति वादिनः।
सिन्धुराजस्य तत्कर्म प्रेक्ष्याश्रद्धेयमद्भुतम्।।

सङ्क्रुद्धान्पाण्डवानेको यद्दधारास्त्रतेजसा।
तत्तस्य कर्म भूतानि सर्वाण्येवाभ्यपूजयन्।।

सौभद्रेण हतैः पूर्वं सोत्तरायोधिभिर्द्विपैः।
पाण्डूनां दर्शितः पन्थाः सैन्धवेन निवारितः।।

यतमानास्तु ते वीरा मात्स्यपाञ्चालकेकयाः।
पाण्डवाश्चान्वपद्यन्त प्रतिशेकुर्न सैन्धवम्।।

यो यो हि यतते भेत्तुं द्रोणानीकं तवाहितः।
तत्तमेव वरं प्राप्य सैन्धवः प्रत्यवारयत्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः।। 43 ।।