द्रोणपर्व
अध्यायः ४०
सञ्जय उवाच।
`ततः समभवद्युद्धं तयोः पुरुषसिंहयोः।
तस्मिन्काले महाबाहुः सौभद्रः परवीरहा।।
सशरं कार्मुकं छित्त्वा लाघवेन व्यपातयत्।
दुःशासनं शरैस्तीक्ष्णैः संततक्ष समन्ततः'।।
शरविक्षतगात्रं तु प्रत्यमित्रमवस्थितम्।
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत्।।
दिष्ट्या पश्यामि सङ्ग्रमे मानिनं शूरमागतम्।
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्।।
यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः।
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः।।
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषितः।
अक्षकूटं समाश्रित्य सौबलस्यात्मनो बलम्।।
तत्त्वयेदमनुप्राप्तं तस्य कोपान्महात्मनः।
परवित्तापहारस्य कोधस्याप्रशमस्य च।।
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च।
पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्।।
तत्त्वयेदमनुप्राप्तं प्रकोपाद्वै महात्मनाम्।
स तस्योग्रमधर्मस्य फलं प्राप्नुहि दुर्मते।।
शासिताऽस्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः।
अद्याहमनृणस्तस्य कोपस्य भविता रणे।।
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः।
अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणं।।
सञ्जय उवाच।
एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्।
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्।।
तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्।
जगाम सह पुङ्खेन वल्मीकमिव पन्नगः।
अथैनं पञ्चविंशत्या पुनरेव समार्पयत्।।
रणमध्यादपोवाह सौभद्रशरपीडितम्।।
पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्।
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन्।।
वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः।
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः।।
अपश्यन्स्मयमानाश्च सौभद्रस्य विचेष्टितम्।
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम्।।
धर्ममारुतशक्राणामश्विनोः प्रतिमास्तथा।
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः।।
सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ।
केकया धृष्टकेतुश्च मात्स्याः पाञ्चालसृञ्जयाः।।
पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः।
अभ्यद्रवन्त त्वरिता द्रोणानीकं बिभित्सवः।।
ततोऽभवन्महायुद्धं त्वदीयानां परैः सह।
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्।।
तथा तु वर्तमाने वै सङ्ग्रामेऽतिभयंकरे।
दुर्योधनो महाराज राधेयमिदमब्रवीत्।।
पश्य दुःशासनं वीरमभिमन्युवशंगतम्।
प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे।
अथ चैते सुसंरब्धाः सिंहा इव बलोत्कटाः।
सौभद्रमुद्यतास्त्रातुमभ्यधावन्त पाण्डवाः।।
सञ्जय उवाच।
ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्।
अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव।।
तस्य चानुचरांस्तीक्ष्णैर्विव्याघ परमेषुभिः।
अवज्ञापूर्वकं शूरः सौभद्रस्य परणाजिरे।।
अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः।
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः।।
तं तथा नाशकत्कश्चिद्दोणाद्वारयितुं रथी।
आरुजन्तं रथव्रातान्वज्रहस्तात्मजात्मजम्।।
ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुष्मताम्।
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्।।
सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्।
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्।।
स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः।
समरेऽमरसङ्काशः सौभद्रो न व्यशीर्यत।।
ततः शिलाशितैस्तीक्ष्णैर्भल्लैरानतपर्वभिः।
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्।।
धनुर्मण्डलनिर्मुक्तैः शरैराशीविषोपमैः।
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव।।
कर्णोऽपि चास्य चिक्षेप बाणान्सन्नतपर्वणः।
असम्ब्रान्तश्च तान्सर्वानगृह्णात्फल्गुनात्मजः।।
ततो मुहूर्तात्कर्णस्य बाणेनैकेन वीर्यवान्।
सध्वजं कार्मुकं वीरश्छित्त्वा भूमावपातयत्।।
ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः।
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्।।
तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः।
वादित्राणि च सञ्जघ्नः सौभद्रं चापि तुष्टुवुः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे चत्वारिंशोऽध्यायः।। 40 ।।