द्रोणपर्व
अध्यायः ४
सञ्जय उवाच।
तस्य लालप्यमानस्य कुरुवृद्धः पितामहः।
देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः।।
भीष्म उवाच।
समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः।
सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा।।
पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भवान्।
बान्धवास्त्वाऽनुजीवन्तु स्वादुवृक्षमिवाण्डजाः।।
मानहा भव शत्रूणां मित्राणां नन्दिवर्धनः।
कौरवाणां भव गतिर्यथा विष्णुर्दिवौकसाम्।।
स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा।
कर्ण राजपुरं गत्वा काम्भोजा निर्जितास्त्वया।।
गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः।
अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया।।
हिमवद्दुर्गनिलयाः किराता रणकर्कशाः।
दुर्योधनस्य वशगास्त्वया कर्ण पुरा कृताः।।
उत्कला मेकलाः पौण्ड्राः कलिङ्गान्ध्राश्च संयुगे।
निषादाश्च त्रिगर्ताश्च बाह्लीकाश्च जितास्त्वया
तत्रतत्र च संग्रामे दुर्योधनहितैषिणा।
बहवश्च जिताः कर्ण त्वया वीरा महौजसा।।
यथा दुर्योधनस्यातः सज्ञातिकुलबान्धवः।
तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव।।
शिवेशनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः।
अनुशास्य कुरून्सर्वान्धत्स्व दुर्योधने जयम्।।
भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा।
तवापि धर्मतः सर्वे यथा तस्य वयं तथा।।
यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम्।
सद्भिः सङ्गममिच्छन्ति तस्मात्प्राज्ञाः परैरपि।।
स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितः।
कुरूणां पालय बलं यथा दुर्योधनस्तथा।।
`यथा च कुरवो युद्धे योधयन्ति स्म पाण्डवान्।
तथा कर्ण त्वया कार्यं दुर्योधनहितैषिणा'।।
निशम्य वचनं तस्य चरणावभिवाद्य च।
ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति।।
सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत्।
व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत्।।
हृषिताः कुरवः सर्वे दुर्योधनपुरोगमाः।
उपागतं महाबाहुं सर्वानीकपुरःसरम्।।
कर्णं दृष्ट्वा महात्मानं युद्धाय समुपस्थितम्।
क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि।
धनुःशब्दैश्च विविधैः कुरवः समपूजयन्।।