द्रोणपर्व

अध्यायः ५

Drona Parva (Sanskrit) · Adhyaya 5
अक्षर का आकार

सञ्जय उवाच।

रथस्थं पुरुषव्याघ्रं दृष्टा कर्णमवस्थितम्।
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्।।

सनाथमिव मन्येऽहं भवता पालितं बलम्।
अत्र किं नु समर्थं यद्धितं तत्सम्प्रधार्यताम्।।

कर्ण उवाच।

ब्रूहि नः पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृषु।
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः।।

ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर।
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम।।

दुर्योधन उवाच।

भीष्मः सेनाप्रणेताऽऽसीद्वयसा विक्रमेण च।
श्रुतेन चोपसम्पन्नः सर्वैर्योधगणैस्तथा।।

तेनातियशसा कर्ण घ्नता शत्रुगणान्मम।
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना।।

तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्।
कं तु सेनाप्रणेतारं मन्यसे तदनन्तरम्।।

न विना नायकं सेना मुहूर्तमपि तिष्ठति।
`आहवेषु विशेषेण भ्रष्टनेत्रेष्विवाञ्जनम्।'
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले।।

यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा।
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्।।

अदेशिको यथा सार्थः सर्वः कृच्छ्रं समृच्छति।
अनायका तथा सेना सर्वान्दोषान्समर्च्छति।।

स भावन्वीक्ष्य सर्वेषु मामकेषु महात्मसु।
पश्य सेनापतिं युक्तमनु शान्तनवादिह।।

यं हि सेनाप्रमेतारं भवान्वक्ष्यति संयुगे।
तं वयं सहिताः सर्वे करिष्यामो न संशयः।

कर्ण उवाच।

सर्व एव महात्मान इमे पुरुषसत्तमाः।
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा।।

कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः।
युक्ताः श्रुतज्ञा धीमन्त आहवेष्वनिवर्तिनः।।

युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः।
एक एव तु कर्तव्यो यस्मिन्वैशेषिका गुणाः।।

अन्योन्यस्पर्धिनां ह्येषां यद्येकं त्वं करिष्यसि।
शेषा विमनसो व्यक्तं न योत्स्यन्ति हितास्तव।।

अयं च सर्वयोधानामाचार्यः स्थिवरो गुरुः।
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः।।

को हि तिष्ठति दुर्धर्षे द्रोणे शस्त्रभृतां वरे।
सेनापतिःस्यादन्योस्माच्छुक्राङ्गिरसदर्शनात्।।

न च सोऽप्यस्ति ते योधः सर्वराजसु भारत।
द्रोणं यः समरे यान्तमनुयास्यति संयुगे।।

एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि।
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुस्तव।।

एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु।
जिगीषन्तो सुरान्सङ्ख्ये कार्तिकेयमिवामराः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि पञ्चमोऽध्यायः।। 5 ।।