द्रोणपर्व
अध्यायः ३
सञ्जय उवाच।
शरतल्पे महात्मानं शयानममितौजसम्।
महावातसमूहेन समुद्रमिव शोषितम्।।
दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम्।
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना।
जयाशा तव पुत्राणां संभग्ना शर्म वर्म च।।
अपाराणामिव द्वीपमगाधे गाधमिच्छताम्।
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम्।।
महान्तमिव मैनाकमहार्यं भुवि पातितम्।
नभश्च्युतमिवादित्यं शक्रस्येवामृतं हृतम्।।
शतक्रतुभिवाचिन्त्यं पुरा वृत्रेणा निर्जितम्।
मोहनं सर्वसैन्यस्य युधि भीष्मं निपातितम्।।
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्।
धनंजयशरैर्व्याप्तं पितरं ते महाव्रतम्।
तं वीरशयने वीरं शयानं पुरुषर्षभम्।
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम्।।
प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः।
`पद्भ्यामेव जगामार्तो बाष्पव्याकुललोचनः'।।
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत।।
कर्णोऽहमस्मि भद्रं ते वद मामभि भारत।
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय।।
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते।
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह।।
कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च।
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव।।
बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात्।
योधांस्त्वमप्लुवे हित्वा पितुलोकं गमिष्यसि।।
अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम्।
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम्।।
अद्य गाण्डीवधोपेण वीर्यज्ञाः सव्यसाचिनः।
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः।।
अद्य गाण्डीवमुक्तानामशनीनामिव xxxः।
त्रासयिष्यति बाणानां कुरूनन्यांश्च पथिxx
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दxxxत्।
धार्तराष्ट्राः इधक्ष्यन्ति तथा बाणाः किरीटिxx
येन येन प्रसरतो वाय्वग्नी सहितौ वने।
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान्।।
यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः।
यथा वायुर्नरव्याघ्र तथा कृष्णो संशयः।।
xxदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च।
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत।
कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः।
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः।।
को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः।
अमानुषैश्च संग्रामं त्र्यम्बकेण महात्मना।
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः।।
कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया।
जितो येन रणे रामो भवता वीर्यशालिना।
क्षत्रियान्तकरो घोरो देवदानवदर्पहा।
`सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना।।
तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः।
आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि तृतीयोऽध्यायः।। 3 ।।