द्रोणपर्व
अध्यायः ३३
सञ्जय उवाच।
पूर्वमस्मासु भग्नेषु फल्गुगेनामितौजसा।
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे।।
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः।
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश।।
अवहारं ततः कृत्वा भारद्वाजस्य सम्मते।
लब्धलक्षैः शरैर्भिन्ना भृशावहसिता रणे।।
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान्।
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति।।
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः।
ततः प्रभातसमये द्रोणं द्रुयोधनोऽब्रवीत्।।
प्रणयादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः।
शृण्वतां सर्वयोधानां संरब्धो वाक्यकोविदः।।
नूनं वयं वध्यपक्षे भवतो द्विजसत्तम।
तथाहि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम्।।
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः।
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः।।
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि।
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन।।
सञ्जय उवाच।
ततोऽप्रीतस्तथोक्तः सन्भारद्वाजोऽब्रवीन्नृपम्।
नार्हसे मां तथा ज्ञातुं घटमानं तव प्रिये।।
ससुरासुरगन्धर्वाः सयक्षोरगराक्षसाः।
नालं लोका रणे जेतुं पाल्यमानं किरीटिना।।
विश्वसृग्यत्र गोविन्दः पृतनानीस्तथाऽर्जुनः।
तत्र कस्य बलं क्रामेदन्यत्र त्र्यम्बकात्प्रभोः।।
सत्यं तात ब्रवीम्यद्य नैतज्जात्वन्यथा भवेत्।
अद्यैकं प्रवरं कञ्चित्पातयिष्ये महारथम्।।
चक्रब्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि।
योगेन केनचिद्राजन्नर्जुनस्त्वपनीयताम्।।
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन।
तेन ह्युपात्तं सकलं सर्वज्ञानमितस्ततः।।
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः।
आह्वयन्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम्।।
ततोऽर्जुनस्याथ परैः सार्धं समभवद्रणः।
तादृशो यादृशो नान्यः श्रुतो दृष्टोपि वा क्वचित्।
तत्र द्रोणेन विहितो व्यूहो राजन्व्यरोचत।
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः।।
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत।
बिभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा।।
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः।
राजपुत्रशतं हत्वा कौसल्यं च बृहद्बलम्।।
महारथं शल्यपुत्रं पौत्रं ते लक्ष्मणं तथा।
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः।
सौभद्रः पृथिवीपाल जहौ प्राणान्परन्तप।।
वयं परमसंहृष्टाः पाण्डवाः शोककर्शिताः।
सौभद्रे निहते राजन्नवहारमकुर्महि।।
`जनमेजय उवाच।
समरोद्युक्तकर्माणः कर्मभिर्व्यञ्जितश्रमाः।
सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः।।
शश्वत्कर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया।
न भूतो भविता वापि कृष्णस्य सदृशः पुमान्।।
सत्यधर्मतपोदानैर्द्विजपूजादिभिर्गुणैः।
सदेहस्त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः।।
युगान्ते चान्तकश्चैव जामदग्न्यश्च कीर्तिमान्।
रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः।।
प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः।
उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ।।
गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः।
नकुले त्वाभिरूप्यं च शौर्यं च नियतानि षट्।।
श्रुतमाधुर्यगाम्भीर्यसत्त्वरूपपराक्रमैः।
सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः।।
ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः।
अभिमन्यौ किलैकस्था दृश्यन्ते ते गुणाः शुभाः।।
युधिष्ठिरस्य शौर्येण कृष्णस्य चरितेन च।
कर्मणा भीमसेनस्य सदृशं भीमकर्मणः।।
धनञ्जयस्य रूपेण विक्रमेण शुभेन च।
विनये सहदेवस्य सदृशं नकुलस्य च।।
अभिमन्युं द्विजश्रेष्ठ सौभद्रमपराजितम्।
श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः।।
वैशंपायन उवाच।
अभिमन्युं हतं श्रुत्वा धृतराष्ट्रो जनाधिपः।
विस्तरेण महाराज पर्यपृच्छत्स सञ्जयम्'।।
धृतराष्ट्र उवाच।
पुत्रं पुरुषसिंहस्य सञ्जयाप्राप्तयौवनम्।
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः।।
दारुणः क्षत्रधर्मोऽयं विहितो धर्मकर्तृभिः।
यत्र राज्येप्सवः शूरा बाले शस्त्रमपातयन्।।
बालमत्यन्तसुखिनं विचरन्तमभीतवत्।
कृतास्त्रा बहवो जघ्नुर्ब्रूहि गावल्गणे कथम्।।
बिबित्सता रथानीकं सौभद्रेणामितौजसा।
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय।।
सञ्जय उवाच।
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम्।
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः।।
विक्रीडितं कुमारेण यथानीकं बिभित्सता।
आरुग्णाश्च यथा वीरा दुःसाध्याश्चापि विप्लुवे।।
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे।
वनौकसामिवारण्ये त्वदीयानामभूद्भयम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि
अभिमन्युवधपर्वणि त्रयस्त्रिंशोऽध्यायः।। 33 ।।