द्रोणपर्व
अध्यायः ३२
सञ्जय उवाच।
प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः।
सोऽभ्याहनद्गुरुं षष्ट्या कर्णं च दशभिः शरैः।।
तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरजिह्मगैः।
जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह।।
आनन्तर्यमभिप्रेप्सुः षड्विंशत्या शमार्पयत्।
कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः।।
षङ्भिर्दुर्योधनो राजा तत एनमथाकिरत्।
भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः।।
द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः।
दर्योधनं द्वादशभिर्दौणिमष्टाभिराशुगैः।।
आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे।
तस्मिन्सन्त्यति प्रामान्मृत्युसाधारणीकृते।।
अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत्।
ते ययुर्भीमसेनस्य समीपममितौजसः।।
युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ।
ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः।।
महेष्वासवरैर्गुप्ता द्रोणानीकं बिभित्सवः।
समापेतुर्महावीर्या भीमप्रभृतयो रथाः।।
तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः।
महारथानतिबलान्वीरान्समरयोधिनः।।
बाह्यं मृत्युभयं कृत्वा तावकान्पाण्डवा ययुः।
सादिनः सादिनोऽब्यघ्नंस्तथैव रथिनो रथान्।।
असिशक्त्यृष्टिसङ्घातैर्युद्धमासीत्परश्वथैः।
प्रकृष्टमसियुद्धं च बभूव कटुकोदयम्।।
कुञ्जराणां च सम्पाते युद्धमासीत्सुदारुणम्।
अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः।।
नरो बाणविनिर्भिन्नो रथादन्यश्च मारिष।
तत्रान्यस्य च सम्पर्दे पतितस्य विवर्मणः।।
शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः।
अपरांश्चापरेऽमृद्रन्वारणाः पतितान्नरान्।।
विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून्।
नरान्त्रैः केचिदपरे विषाणालग्नसंश्रयैः।।
बभ्रमुः समरे नागा मृद्रन्तः शतशो नरान्।
कार्ष्णायसतनुत्राणान्नराश्वरथकुञ्जरान्।।
पतितान्पोथयाञ्चक्रुर्द्विपाः स्थूलनलानिव।
गृध्रपत्राधिवासांसि शयनानि नारधिपाः।।
हीमन्तः कालसम्पर्कात्सुदुःस्वान्यनुशेरते।
हन्ति स्मात्र पिता पुत्रं रथेनाभ्येत्य संयुगे।।
पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत।
रथो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यों निपातितम्।।
युगार्धं च्छिन्नमादाय प्रदुद्राव तथा हयः।
सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम्।।
गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ।
रथिना ताडितो नागो नाराचेनापतत्क्षितौ।।
सारोहश्चापतद्वाजी गेजेनाभ्याहतो भृशम्।
निर्मर्यादं महद्युद्धमवर्तत सुदारुणम्।।
हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि।
प्रहराहर जह्मेनं स्मितश्वेडितगर्जितैः।
इत्येवमुच्चैरत्यर्थं श्रूयन्ते विविधा गिरः।।
नरस्याश्वस्य नाग्स्य समसञ्जत शोणितम्।
उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत्।।
चक्रेण चक्रमासाद्य वीरो वीरस्य संयुगे।
अतीतेषुपथे काले जहार गदया सिरः।।
असीत्केशपरामर्शो मुष्टियुद्धं च दारुणम्।
नखैर्दन्तैश्च सूराणामद्वीपे द्वीपमिच्छताम्।।
तत्राच्छिद्यत शूरस्य सखङ्गो बाहुरुद्यतः।
सधुनश्चापरस्यापि सशरः साङ्कुशस्तथा।।
आक्रोशदन्यमन्योऽत्र तथाऽन्यो विमुखोऽद्रवत्।
अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत्।।
सशब्दमद्रवच्चान्यः शब्दादन्योऽत्रसद्भृशम्।
स्वानन्योऽथ परानन्यो जघान निशितैः शरैः।।
गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः।
मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे।।
तथैव रथिनं नागः क्षरन्गिरिरिवारुजन्।
अभ्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम्।।
शूरान्प्रहरतो दृष्ट्वा कृताश्स्त्रान्रुधिरोक्षितान्।
बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान्।।
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन।
सैन्येन रजसा ध्वस्तं निर्मर्यादमवर्तत।।
ततः सेनापतिः शीघ्रमयं क्राल इति ब्रुवन्।
नित्याभित्वरितानेव त्वरयामास पाण्डवान्।।
कुर्वन्तः शासनं तस्य पाण्डवा बाहुशालिनः।
सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति।।
गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत।
इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति।।
ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः।
विन्दानुविन्दावावन्त्यौ शल्यश्चैतान्न्यवारयन्।।
ते त्वार्यधर्मसंरब्धा दुर्निवारा दुरासदाः।
शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवै सह।।
ततो द्रोणोऽतिसंक्रुद्धो विसृजञ्शतशः शरान्।
चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत्।।
तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षं मारिष।
वज्रसंह्रादसङ्काशस्त्रासयन्मानवान्बहून्।।
एतस्मिन्नन्तरे जिष्णुर्जित्वा संशप्तकान्बहून्।
अभ्ययात्तत्र यत्रासौ द्रोणः पाण्डून्प्रमर्दति।।
ताञ्शरौघान्महावर्ताञ्शोणितोदान्महाहदान्।
तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः।।
तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः।
दीप्यमानमपश्याम तेजसा वानरध्वजम्।।
संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः।
स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत्।।
प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा।
युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः।।
तेन बाणसहस्रौधैर्गजाश्वरथयोधिनः।
ताड्यमानाः क्षितिं जग्मुर्मुक्तकेशाःशरार्दिताः।।
केचिदार्तस्वनं चक्रुर्विनेशुरपरे पुनः।
पार्थबाणहताः केचिन्निपेतुर्विगतासवः।।
तेषामुत्पतितान्कांश्चित्पतितांश्च पराङ्मुखान्।
न जघानार्जुनो योधान्योधव्रतमनुस्मरन्।।
ते विकीर्णरथाश्चित्राः प्रायशश्च पराङ्मुखः।
कुरवः कर्णकर्णेति हाहेति च विचुक्रुशुः।।
तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम्।
मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम्।।
स भारतरथश्रेष्ठः सर्वभारतहर्षणः।
प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वारः।।
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च।
`वारुणेन तदस्त्रेण विधूयाथ धनञ्जयः'।
शरौघाञ्शरजालेन विदुधाव धनञ्जयः।।
तथैवाधिरथिस्तस्य बाणाज्ज्वलिततेजसः।
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान्।।
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः।
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः।।
अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः।
तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः।।
ते निकृत्तायुघाः शूरा निर्विषा भुजगा इव।
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन्।।
ता भुजाग्रैर्महावेगा निसृष्टा भुजगोपमाः।
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति।।
ता निकृत्य शरव्रातैस्त्रिभिस्त्रिभिरजिह्मगैः।
ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान्।।
अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः।
कर्णादवरजं बाणैर्जघान निशितैः शरैः।।
ततः शत्रुंजयं हत्वा पार्थः षङ्भिरजिह्मगैः।
जहार सद्यो भल्लेन विपाटस्य शिरो रथात्।।
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना।
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः।।
ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत्।
वरासिना कर्णपक्षाञ्जधान दश पञ्च च।।
पुनस्तु रथमास्थाय धनुरादाय चापरम्।
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः।।
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम्।
जघान चन्द्रवर्माणं बृहत्क्षत्रं च नैषधम्।।
ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम्।
आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे।।
शैनेयोऽप्यन्यदादाय धनुरिन्दुसमद्युतिः।
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत्।।
भल्लाभ्यां साधु मुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम्।
पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्।।
ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः।
निम़ज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात्।।
पत्त्यश्वरथमातङ्गास्त्वदीयाः शतशोऽपरे।
कर्णमेवाभ्यधावन्त त्रास्यमानाः प्रहारिणः।।
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च।
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे।।
एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम्।
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः।।
पदातिरथनागाश्वा गजाश्वरथपत्तिभिः।
रथिनो नागपत्त्यश्वैरथ पत्तीरथ द्विपैः।।
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह।
संयुक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः।।
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम्।
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम्।।
ततो हता नररथवाजिकुञ्जरै
रनेकशो द्विपरथपत्तिवाजिनः।
गजैर्गजा रथिभिरुदायुधा रथा।
हयैर्हयाः पत्तिगणैश्च पत्तयः।।
रथैर्द्विपा द्विरदवरैर्महाहया
हयैर्नरा वररथिभिश्च वाजिनः।
निरस्तजिह्वादशनेक्षणाः क्षितौ
क्षयं गताः प्रमथितवर्मभूषणाः।।
तथा परैर्बहुकरणैर्वरायुधै-
र्हता गताः प्रतिभयदर्शनाः क्षितिम्।
विपोथिता हयगजपादताडिता
भृशाकुला रथमुखनेमिभिः क्षताः।।
प्रमोदने श्वापदपक्षिरक्षसां
जनक्षये वर्तति तत्र दारुणे।
महाबलास्ते कुपिताः परस्परं
निषूदयन्तः प्रविचेरुरोजसा।।
ततो बले भृशलुलिते परस्परं
निरीक्षमाणे रुधिरौघसम्प्लुते।
दिवाकरेऽस्तंगिरिमास्थिते शनै
रुभे प्रयाते शिबिराय भारत।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धावहारे द्वात्रिंशोऽध्यायः।। 32 ।।