द्रोणपर्व

अध्यायः ३४

Drona Parva (Sanskrit) · Adhyaya 34
अक्षर का आकार

सञ्जय उवाच।

स्थिरो भव महाराज शोकं धारय दुर्धरम्।
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृशु।।

पद्मव्यूहो महाराज आचार्येणाभिकल्पितः।
तत्र पद्मोपमाः सर्वे राजानो विनिवेशिताः।।

कुमारा राजलोकस्य निक्षिप्ताः केसरोपामाः।
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत्।।

कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः।
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः।।

सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः।।

सहिताः पर्यधावन्त कार्ष्णि प्रतियुयुत्सवः।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम्।।

पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम्।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः।।

अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः।
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः।।

कर्णदुःशासनकृपैर्वृतो राजा महारथैः।
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः।।

चामरव्यजनाक्षेपैरुदयन्निव भास्करः।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थित नायकः।।

सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः।।

सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा।।

पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः।
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि
त्रयोदशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः।। 34 ।।