द्रोणपर्व
अध्यायः ३१
धृतराष्ट्र उवाच।
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय।
चलितानां द्रुतानां च कथमासीन्मनांसि वः।।
आनीकानां प्रभग्नानामवस्थानमपश्यताम्।
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय।।
सञ्जय उवाच।
तथापि तव पुत्रस्य प्रियकामा विशाम्पते।
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः।।
समुद्यतेषु चास्त्रेषु सम्प्राप्ते च युधिष्ठिरे।
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत्।।
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः।
सात्यकेश्चैव वीरस्य धृष्टद्युम्नस्य वा विभो।।
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन्।
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन्।।
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे।
कुरूणां पाण्डवानां च द्रोणद्यूतमवतेत।।
यंयं प्रमथते द्रोणः पाञ्चालानां रथव्रजम्।
तत्रतत्र तु पाञ्चाल्यो धृष्टद्युम्नोऽभ्यवर्तत।।
तेषां भाग्यविपर्यासैः सङ्ग्रामे भैरवे सति।
वीराः समासदन्वीरान्कुर्वन्तो भैरवं रवम्।।
अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः।
अकम्पयन्ननीकानि स्मरन्तः क्लेशमात्मनः।।
ते त्वमर्षवशं प्राप्ता हीमन्तः सत्वचोदिताः।
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे।।
अयासमिव सम्पातः शिलानामिव चाभवत्।
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम्।।
नानुस्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम्।
ये पूर्वदेवैर्देवानामपश्यन्युद्धमद्भुतम्।।
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने।
निवर्तता बलौघेन महता भारपीडिता।।
घूर्णतोऽपि बलौघस्य दिवं स्तब्ध्वेव निःस्वनः।
अजातशत्रोस्तत्सैन्यमाविवेश सुभैरवः।।
समासाद्य तु पाण्डूनामनीकानि सहस्रशः।
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः।।
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा।
पर्यवरायदासाद्य द्रोणं सेनापतिः स्वयम्।।
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तथा।
नैव तस्योपमा काचिदिति मे निश्चिता मतिः।।
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम्।
शरस्कुलिङ्गश्चापार्चिर्दिहन्कक्षमिवानलः।।
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान्।
पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत।।
नील किं बहुभिर्दग्धैस्तव योधैः सरार्चिषा।
मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशु माम्।।
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम्।
व्याकोशपद्माभमुखो नीलो विव्याध सायकैः।।
तेनापि विद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः।
धनुर्ध्वजं च च्छत्रं च द्विषतः सन्न्यकृन्तत।।
स प्लुतः स्यन्दनात्तस्मान्नीलश्चर्मवरासिभृत्।
द्रौणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्त्रिवत्।।
तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम्।
भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ।।
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः।
प्रांशुरुत्पलपत्राभो निहतो न्यपतद्भुवि।।
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला।
आचार्यपुत्रेण हते नीले ज्वलिततेजसि।।
अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः।
कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष।।
दक्षिणेन तु सेनायाः कुरुते कदनं बली।
संशप्तकावशेषस्य नारायणबलस्य च।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे एकत्रिंशोऽध्यायः।। 31 ।।