द्रोणपर्व

अध्यायः ३०

Drona Parva (Sanskrit) · Adhyaya 30
अक्षर का आकार

सञ्जय उवाच।

प्रियमिन्द्रस्य सततं सखायममितौजसम्।
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत।।

ततो गान्धारराजस्य सुतौ परपुरञ्जयौ।
अर्देतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ।।

तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्वितौ।
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्।।

वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्।
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः।।

ततोऽर्जुनः शरव्रातैर्जानाप्रहरणैरपि।
गान्धारानाकुलांश्चक्रे सौबलप्रमुखान्पुनः।।

ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्।
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः।।

हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः।
आरुरोह रथं भ्रातुरन्यश्च धनुराददे।।

तावेकरथमारूढौ भ्रातरौ वृषकाचलौ।
शरवर्षेण बीभत्सुमविध्येतां मुहुर्मुहुः।।

स्यालौ तव महात्मानौ राजानौ वृषकाचलौ।
भृशं विजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव।।

लब्धलक्षौ तु गान्धारावहतां पाण्डवं पुनः।
नैदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा।।

तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ।
संश्चिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणाऽर्जुनः।।

तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ।
राजन्सम्पेततुर्वीरौ सोदर्यावेकलक्षणौ।।

तयोर्भूमिं गतौ देहौ रथाद्बन्धुजनप्रियौ।
यशो दशः दिशः पुण्यं गमयित्वा व्यवस्थितौ।।

दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ।
भृशं मुमुचुरश्रूणि पुत्रास्तव विशांपते।।

निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः।
कृष्णौ सम्मोहन्मायां विदधे शकुनिस्ततः।।

लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः।
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टसाः।।

सकम्पनर्ष्टिनखरा मुसलानि परश्वथाः।
क्षुराः क्षुरप्रनालीका वत्सदन्तास्थिसन्धयः।।

चक्राणि विशिखाः प्रासा विविधान्यायुधानि च।
प्रपेतुः शतशो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति।।

खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचित्रकाः।
ऋक्षाः सालावृका गृध्राः कपयश्च सरीसृपाः।।

विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति।
सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च।।

ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः।
विसृजन्निषुजालानि सहसा तान्यताडयत्।।

ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः।
विरुवन्तो महारावान्विनेशुः सर्वतो हताः।।

ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति।
तस्माच्च तमसो वचाः क्रूराः पार्थमभर्त्सयन्।।

तत्तमो भैरवं घोरं भयकर्तृ महाहवे।
उत्तमास्त्रेण महता ज्यौतिषेणार्जुनोऽवधीत्।।

हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः।
अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः।
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्।।

एवं बहुविधा मायाः सौबलस्य कृताः कृताः।
जघानास्त्रबलेनाशु प्रहसन्नर्जुनोऽब्रवीत्।।

`दुर्द्यूतदेविन्गान्धारे नाक्षान्क्षिपति गाण्डिवम्।
ज्वलितान्निशितांस्तीक्ष्णाञ्शरान्क्षिपतिगाण्डिवं'।।

तदा हतासु मायासु त्रस्तोऽर्जुनशराहतः।
अपायाञ्जवनैरश्वैः शकुनिः प्राकृतो यथा।।

ततोऽर्जुनोऽस्त्रविच्छैघ्र्यं दर्शयन्नात्मनोऽरिषु।
अभ्यवर्षच्छरौधेण कौरवाणामनीकिनीम्।।

सा हन्यमाना पार्थेन तव पुत्रस्य वाहिनी।
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्।।

द्रोणमेवान्वपद्यन्त केचित्तत्र नरर्षभाः।
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना।।

नापश्याम ततस्त्वेनं सैन्ये वै रजसावृते।
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया।।

शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निःस्वनम्।
गाण्डीवस्य तु निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्।।

ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम्।
सुयुद्धं चार्जुनस्यासीदहं द्रोणमन्वियाम्।।

यौधिष्ठिराभ्यनीकानि प्रहरन्ति ततस्ततः।
नानाविधान्यनीकानि पुत्राणां तव भारत।
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः।।

तं वासवमिवायान्तं भूरिवर्षं शरौघिणम्।
महेष्वासा नरव्याघ्रा नोग्रं केचिदवारयन्।।

ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्।
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः।।

तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः।
शलभा इव सम्पेतुः संवृण्वाना दिशो दश।।

तुरगं रथिनं नागं पदातिमपि मारिष।
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः।।

न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः।
पृथगेकशरारुग्णा निपेतुस्ते गतासवः।।

हतैर्मनुष्यौर्द्विरदैश्च सर्वतः
शराभिसृष्टैश्च हयैर्निपातितैः।
तदाऽश्वगोमायुबलाभिनादितं
विचित्रमायोधशिरो बभूव तत्।।

पिता सुतं त्यजति सुहृद्वरं सुहृत्
तथैव पुत्रः पितरं शरातुरः।
स्वरक्षणे कृतमतयस्तदा जना
सत्यजन्ति वाहानपि पार्थपीडिताः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि