द्रोणपर्व

अध्यायः २

Drona Parva (Sanskrit) · Adhyaya 2
अक्षर का आकार

सञ्जय उवाच।

हतं भीष्ममथाधिरथिर्विदित्वा
भिन्नां नावं वारिधावत्यगाधे।
सोदर्यवद्व्यसनात्सूतपुत्रः
संतारयिष्यंस्तव पुत्रस्य सेनाम्।।

श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं
निपातितं शान्तनवं महारथम्।
अथोपयायात्सहसारिकर्षणो
धनुर्धराणां प्रवरस्तदा नृप।।

हते तु रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून्।
पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम्।।

सम्मृज्य दिव्यं धनुराततज्यं स रामदत्तं रिपुसङ्घहन्ता।
बाणांश्च कालानलवायुकल्पानुल्लालयन्वाक्यमिदं बभाषे।

कर्ण उवाच।

यस्मिन्धृतिर्बुद्धिपराक्रमौजः सत्यं स्मृतिर्वीरगुणाश्च सर्वे।
अस्त्राणि दिव्यान्यथ संनतिह्रीः प्रिया च वागनसूया च भीष्मे।।

सदा कृतज्ञे द्विजशत्रुघातके सनातनं चन्द्रमसीव लक्ष्मीः।
स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव च सर्ववीरान्।।

नेह ध्रुवं किङ्चन जातु विद्यते। लोके ह्यस्मिन्कर्मणोऽनित्ययोगात्।
सूर्योदये को हि विमुक्तसङ्शयो भावं कुर्वीतार्यमहाव्रते हते।।

वसुप्रभावे वसुवीर्यसंभवे गते वसूनेव वसुंधराधिपे।
वसूनि पुत्रांश्च वसुंधरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम्।।

सञ्जय उवाच।

महाप्रभावे वरदे निपातिते लोकेश्वरे शास्तरि चामितौजसि।
पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन्।।

इदं च राधेयवचो निशम्य सुताश्च राजंस्तव सैनिकाश्च ह।
परस्परं चुक्रुशुरार्तिजं मुहुस्तदाश्रु नेत्रैर्मुमुचुश्च शब्दवत्।।

प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः।
अथाब्रवीद्धर्षकरं तदा वचो रथर्पभान्सर्वमहारथर्षभः।।

जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये।
भवत्सु तिष्ठत्स्विह पातितो मृधे निरिप्रकाशः कुरुपुङ्गवः कथम्।।

निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा।
न पार्थिवाः सोढुमलं धनंजयं गिरिप्रवोढारमिवानिलं द्रुमाः।।

हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै।
मर्या कुख्णां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा।।

समाहिते चात्मनि भारमीदृशं जगत्तथाऽनित्यमिदं च लक्षये।
निपातितं चाहवशौण्डमाहखे कथं नु कुर्यामहमीदृशे भयम्।।

अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेशयन्यमसदनं चरन्रणे।
यशः परं जगति विभाव्य वर्तिता परैर्हतो भुवि शयिताथवा पुनः।।

युधिष्ठिरो धृतिमतिसत्यसत्ववान् वृकोदरो गजशततुल्यविक्रमः।
तथार्जुनस्त्रिदशवरात्मजो युवा न तद्बलं सुजयमिहामरैरपि।।

यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः।
न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते भृत्युमुखादिवासुभृत्।।

तपोऽभ्युदीर्णं तपसैव बाध्यते बलं बलेनैव तथा मनस्विभिः।
मनश्च मे शत्रुनिवारणे ध्रुं स्वरक्षणे चाचलवद्व्यवस्थितम्।।

एवं चैषां बाधमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत।
मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः समेयात्स मित्रम्।।

कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम्।
सर्वान्सङ्ख्ये शत्रुशङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं प्रपत्स्ये।।

संप्राक्रुष्टे रुदितस्त्रीकुमारे पराहते पौरुषे धार्तराष्ट्रे।
मया कृत्यमिति जानामि सूत तस्माद्राज्ञस्त्वद्य शत्रून्विजेष्ये।।

कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन्।
सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धर्मxxxxxxxx

निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि।
शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चाग्निविपाहिकल्पान्।।

उपासङ्गान्पोडश योजयन्तु धनूम्पि दिव्यानि तथाऽऽहरन्तु।
असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खं च जाम्बूनदचित्रनालम्।।

इमां रौक्मीं नागकक्ष्यां विचित्रां ध्वजं जैत्रं दिव्यमिन्दीवराङ्कम्।
श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयन्तु चित्रां मालां चारुबद्धां सलाजाम्।।

अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान् पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः।
तप्तैर्भाण्डैः काञ्चनैरभ्युपेतान् शीघ्राञ्शीघ्रं सूतपुत्रानयस्व।।

रथं चाग्र्यं हेममालावनद्धं रत्नैश्चित्रं सूर्यचन्द्रप्रकाशैः।
द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्बाहैर्युक्तं तूर्णमावर्तयस्व।।

चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः सन्नहनोपपन्नाः।
तूणांश्च पूर्णान्महतः शराणामासाद्य गात्रावरणानि चैव।।

प्रायात्रिकं चानयताशु सर्वं पूर्णं कान्त्या वीरकांस्यां च हैमम्।
आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः।।

प्रयाहि मूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च।
तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्मो यथैष्यामि हतो द्विषद्भिः।।

यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च।
वासुदेवः सात्यकिः सृंजयाश्च मन्ये बलं तदजय्यं महीपैः।।

तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे किरीटिनम्।
तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्ममुखो यमाय।।

न त्वेवाहं न गमिष्यामि तेषां मध्ये शराणां तत्र चाहं ब्रवीमि।
मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः।।

सञ्जय उवाच।

समृद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम्।
पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय।।

सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभो देवगणैर्यथेन्द्रः।
ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य।।

वरूथिना महता सध्वजेन सुवर्णमुक्तामणिरत्नमालिना।
सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः।।

हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः।
स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिवास्थितः।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि द्वितीयोऽध्यायः।। 2 ।।