द्रोणपर्व
अध्यायः २१
सञ्जय उवाच।
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम्।
महता शरवर्षेण प्रत्यगृह्णादभीतवत्।।
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले।
जिघृक्षति महासिंहे गजानामिव यूथपम्।।
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः।
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत्।।
तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ।
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव।।
ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः।
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन्।।
तथास्य सारथेः पञ्च शरान्सर्पविषोपमान्।
अमुञ्चदन्तकप्रख्यान्संमुमोहास्य सारथिः।।
अथास्य सहसाऽविध्यद्धयान्दशभिराशुगैः।
दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी।।
मण्डलं तु समावृत्य विचरन्पृतनामुखे।
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः।।
द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे।
मनसा चिन्तयामास प्राप्तकालमरिन्दमः।।
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदभिः।
अविध्यच्छीघ्रमाचार्यश्छित्त्वाऽस्य सशरं धनुः।।
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान्।
द्रोणमब्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः।।
दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत्।।
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम्।
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह।।
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे।
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत्।।
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः।
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी।।
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च।
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम्।।
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम्।।
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान्।।
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी।
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः।।
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनःपुनः।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत्।।
स सत्यजितमालोक्य तथोदीर्णं महाहवे।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः।।
तस्मिन्हते महामात्रे पाञ्चालानां महारथे।
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः।।
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः।
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन्।।
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा।
व्यधमत्तान्यनीकानि तूलराशिमिवानलः।।
निर्दहन्तमनीकानि तानि तानि पुनःपुनः।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत।।
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम्।।
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम्।
अवाकिरच्छरशतैर्भारद्वाजं महारथम्।।
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम्।
क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः।।
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि।
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः।।
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम्।
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः।।
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः।
ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे।।
नागानश्वान्पदातींश्च रथिनो गजसादिनः।
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः।।
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये।
अश्मवर्षमिवावर्षन्परेषां भयमादधत्।।
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव।
बली शूरो महेष्वासो मित्राणामभयङ्करः।।
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम्।
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः।।
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्य भारत।
हिमवच्छिखराकारं चरतः संयुगे भृशम्।।
द्रोणस्तु पाण्डवानीके चकार कदनं महत्।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः।।
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः।
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम्।।
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम्।।
गजवाजिमहाग्राहामसिमीनां दुरासदाम्।।
वीरास्यिशर्करां रौद्रां भेरीमुरजकच्छपाम्।
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम्।।
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम्।
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम्।।
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम्।
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम्।।
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम्।
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम्।।
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम्।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम्।।
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम्।
निषेवितां महारौद्रैः पिशिताशैः समन्ततः।।
तं दहन्तमनीकानि रथोदारं कृतान्तवत्।
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः।।
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन्।
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा।।
तं तु शूरं महेष्वासं तावकाऽभ्युद्यतायुधाः।
राजानो राजपुत्राश्च समन्तात्पर्यवारयन्।।
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः।
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः।।
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः।
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः।।
युधिष्ठिरो द्वादशभिर्द्रोणं विव्याध सायकैः।
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः।।
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः।
अभ्यतीत्य स्थानीकं दृढसेनमपातयत्।।
ततो राजानमासाद्य प्रहरन्तमभीतवत्।
अविध्यन्नवभिः क्षेमं स हतःप्रापतद्रथात्।।
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः।
त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन।।
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्।
वसुदानं च भल्लेन प्रैषयद्यमसादनम्।।
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम्।
क्षत्रदेवं तु भल्लेन रथनीडाडपातयत्।।
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम्।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत्।।
ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः।
अपायाञ्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात्।।
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत्।
स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात्।
`हत्वा तं विबभौ द्रोणः कुरुभिः परिवारितः।।
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः।
नवभिश्च महीपालः पुनर्विव्याध पञ्चभिः।।
स सात्यकिश्चतुष्षष्ट्या राजन्विव्याध सायकैः।
सुचित्रो दशभिर्बाणैर्द्रोणं विद्व्वाऽनदद्बली।।
तं द्रोणः समरे राजञ्शरवर्षैरवाकिरत्।
अपातयत्तयो द्रोणः सुचित्रं सहसारथिम्।।
साश्वं च समरे राजन्हतो वै प्रापतत्क्षितौ।
पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात्।।
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे।
हत द्रोणं हत द्रोणमित्यासीन्निःस्वनो महान्।।
तांस्तथा भृशसंरब्धान्पाञ्चालान्मत्स्यकेकयान्।
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली।।
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ।
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम्।।
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान्।
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः।।
तावकाश्च महाराज जयं लब्ध्वा महाहवे।
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः।।
ते दानवा इवेन्द्रेण वध्यमाना महात्मना।
पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे एकविंशोऽध्यायः।। 21 ।।