द्रोणपर्व
अध्यायः २२
धृतराष्ट्र उवाच।
भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे।
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत।।
आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्।
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः।।
स हि वीरोन्नतः शूरो यो भग्नेषु निवर्तते।
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम्।।
जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्।
त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम्।।
महेष्वासं नरव्याघ्रं द्विषतां भयवर्धनम्।
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्।।
भारद्वाजं तथाऽनीके दृष्ट्वा शूरमवस्थितम्।
के शूराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय।।
सञ्चय उवाच।
तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः।
पाञ्चालान्पाण्वान्मात्स्यान्सृञ्जयांश्चेदिकेकयान्।।
द्रोणचापविमुक्तेन शरौघेणाशु हारिणा।
सिन्धोरिव महौधेन हियमाणान्यथा प्लवान्।।
कौरवाः सिंहनादेन नानावाद्यस्वनेन च।
रथद्विपनरांश्चैव सर्वतः समवारयन्।।
तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसम्वृतः।
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव।।
दुर्योधन उवाच।
पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः।
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना।।
नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः।
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः।।
अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना।
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः।।
सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना।
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः।।
भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः।
अन्योन्यं समलीयन्त पलायनपरायणाः।।
एष भीमो महाक्रोधी हीनः पाण्डवसृञ्जयैः।
मदीयैरावृतो योधैः कर्ण नन्दयतीव माम्।।
व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः।
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः।।
कर्ण उवाच।
नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्।
न चेमान्पुरुषव्याघ्र सिंहनादान्सहिष्यति।।
न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः।
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः।।
विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः।
स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः।।
निवृत्तो हि महाबाहुरमितौजा वृकोदरः।
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति।।
असिना धनुषा शक्या हयैर्नागैर्नरै स्थैः।
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति।।
तमेनमनुवर्तन्ते सात्यकिप्रमुखा रथाः।
पाञ्चालाः केकया मास्त्याः पाश्डवाश्च विशेषतः।।
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः।
विनिघ्नन्तश्च भीमेन संरब्धेनाभिचोदिताः।।
ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः।
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव।।
`समरेषु तु निर्दिष्टाः पाण्डवाः कृष्णबान्धवाः।
पाञ्चालाः केकया मात्स्याः पाण्डवेयाश्च सर्वशः।।
शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः।
हीमन्तः शत्रुमरणे निपुणाः पुण्यलक्षणाः।।
बहवः पार्थिवा राजंस्तेषां वशगता रणे।
मावमंस्थाः पाण्डवांस्त्वं नारायणपुरोगमान्।।
एकायनगता ह्येते पीडयेयुर्यतव्रतम्।
अरक्षमाणं शलभा यथा दीपं मुमूर्षवः।।
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे।
अतिभारमहं मन्ये भारद्वाजे समाहितम्।।
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः।
कोका इव महानागं मा वै हन्युर्यतव्रतम्।।
सञ्जय उवाच।
राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्ततः।
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति।।
तत्रारावो महानासीदेकं द्रोणं जिघांसताम्।
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे द्वाविंशोऽध्यायः।। 22 ।।