द्रोणपर्व
अध्यायः २०
सञ्जय उवाच।
परिणाम्य निशां तां तु भारद्वाजो महारथः।
उक्त्वा सुबहु राजेन्द्र वचनं वै सुयोधनम्।।
विधाय गोप्तॄन्पार्थस्य संशप्तकगणैः सह।
निष्क्रान्ते च तदा पार्थे संशप्तकवधं प्रति।।
व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम्।
अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया।।
व्यूढां दृष्ट्वा सुपर्णेन भारद्वाजस्य तां चमूम्।
व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः।।
मुखं त्वासीत्सुपर्णस्य भारद्वाजो महारथः।
शिरो दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः।।
चक्षुषी कृतवर्माऽऽसीद्गौतमश्चास्यतां वरः।।
भूतशर्मा क्षेमशर्मा करकाक्षश्च वीर्यवान्।
कलिङ्गाः सिंहलाः प्राच्याः शूरा भीरा दशेरकाः।।
शका यवनकाम्भोजास्तथा हंसपथाश्च ये।
ग्रीवायां शूरसेनाश्च दरन्दा मद्रकेकयाः।
गजाश्वरथपत्त्योघास्तस्थुः परमदंशिताः।।
भूरिश्रवास्तथा शल्यः सोमदत्तश्च बाह्लिकः।
अक्षौहिण्या वृता वीरा दक्षिणं पार्श्वमास्थिताः।।
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणः।
वामं पार्श्वं समाश्रित्य द्रोणपुत्राग्रतः स्थिताः।।
पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः।
गान्धाराः शकुनाः प्राच्याः पार्वतीया वसातयः।।
पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः।
महत्या सेनया तस्थौ नानाजनपदोत्थया।।
जयद्रथो भीमरथः सम्पातिर्ऋषभो जयः।
भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः।।
वृता बलेन महता ब्रह्मलोकपरिष्कृताः।
व्यूहस्योरसि ते राजन्स्थिता युद्धविशारदाः।।
द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः।
वातोद्धूतार्णवाकारः प्रनृत्त इव लक्ष्यते।।
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः।
सविद्युत्स्तनिता मेघाः सर्वदिग्भ्यः इवोष्णगे।।
तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम्।
आस्थितः शुशुभे राजन्नंशुमानुदये यथा।।
माल्यदामवता राजञ्श्वेतच्छत्रेण धार्यता।
कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना।।
नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ।
अतिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान्।।
नानानृपतिभिर्वीरै र्विविधायुधभूषणैः।
समन्वितः पार्वतीयैः शक्रो देवगणैरिव।।
ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम्।
अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत्।।
ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो।
पारावतसवर्णाश्व तथा नीतिर्विधीयताम्।।
धृष्टद्युम्न उवाच।
द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत।
अहमावारयिष्यामि द्रोणमद्य सहानुगम्।।
मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि।
न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन।।
सञ्जय उवाच।
एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली।
पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत्।।
अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम्।
क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव।।
`स हि जातो महाराज द्रोणस्य निधनं प्रति।।
मर्त्यधर्मतया तस्माद्भारद्वाजो व्यमुह्यत।
नाशकत्तत्र तत्किञ्चिदनीकं प्रतिवीक्षितुम्।।
ततः किरन्निषूंस्तीक्ष्णान्द्रुपदस्य वरूथिनीम्।
भराद्वाजो ययौ तूर्णं पार्षतं वर्जयन्युधि।
द्रुपदस्य महत्सैन्यं दारयामास ब्राह्मणः'।।
तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्षणः।
प्रियं चिकीर्षुर्द्रोणस्य धृष्टद्युम्नमवारयत्।।
स सम्प्रहारस्तुमुलः सुघोरः समपद्यत।
पार्षतस्य च शूरस्य दुर्मुखस्य च भारत।।
पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम्।
भारद्वाजं शरौघेण महता समवारयत्।।
द्रोणावारितं दृष्ट्वा भृशायस्तस्तवात्मजः।
नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत्।।
तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः।
द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः।।
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः।
तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित्।।
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम्।
तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत।।
`नैव खं न दिशो भूमिर्बभासे न च भास्करः'।
नैव स्वे न परे राजन्नाज्ञायन्त परस्परम्।
अनुमानेन संज्ञाभिर्युद्धं तत्समवर्तत।।
चूडामणिषु निष्केषु भूषणेष्वपि वर्मसु।
तेषामादित्यवर्णाभा रश्मयः प्रचकाशिरे।।
तत्प्रकीर्णपताकानां रथवारणवाजिनाम्।
बलाकाशबलाभ्रामं ददृशे रूपमाहवे।।
नरानेव नरा जघ्नरुदग्राश्च हया हयान्।
रथांश्च रथिनो जघ्नुर्वारणा वरवारणान्।।
समुच्छ्रितपताकानां गजानां परमद्विपैः।
क्षणेन तुमुलो घोरः सङ्ग्रामः समपद्यत।।
तेषां संसक्तगात्राणां कर्षतामितरेतरम्।
दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत।।
विप्रकीर्णपताकास्ते विषाणजनिताग्नयः।
बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः।।
विक्षिपद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः।
सम्बभूव मही कीर्णा मेघैर्द्यौरिव वार्षिकी।।
तेषामाहन्यमानानां बाणतोमरऋष्टिभिः।
वारणानां रवो जज्ञे मेघानामिव सम्पुवे।।
तोमराभिहताः केचिद्बाणैश्च परमद्विपाः।
वित्रेसुः सर्वनागानां शब्दमेवापरेऽसृजन्।।
विषाणाभिहताश्चापि केचित्तत्र गजा गजैः।
चक्रुरार्तस्वनं घोरमुत्पातजलदा इव।।
प्रतीपाः क्रियमाणाश्च वारणा वरवारणैः।
उन्मथ्य पुनराजग्मुः प्रेरिताः परमाङ्कुशैः।।
महामात्रैर्महामात्रास्ताडिताः शरतोमरैः।
गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः।।
निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः।
छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम्।।
हतान्परिवहन्तश्च पतितान्पतितायुधान्।
दिशो जग्मुर्महानागाः केचिदेकचरा इव।।
ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वथैः।
पेतुरार्तस्वनं कृत्वा तदा विशसने गजाः।।
तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः।
आहता सहसा भूमिश्चकम्पे च ननाद च।।
सादितैः सगजारोहैः सपताकैः समन्ततः।
मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः।।
गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे।
रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः।।
क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः।
परान्स्वांश्चापि मृद्गन्तः परिपेतुर्दिशो दश।।
गजाश्वरथयोधानां शरीरौघसमावृता।
बभूव पृथिवी राजन्मांसशोणितकर्दमा।।
प्रमथ्य च विषाणाग्रैः समुत्क्षिप्ताश्च वारणैः।
सचक्राश्च विचक्राश्च रथैरेव महारथाः।।
रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः।
हतारोहाश्च मातङ्गा दिशो जग्मुर्भयातुराः।।
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा।
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन।।
आगुल्फेभ्योऽवसीदन्ते नरा लोहितकर्दमैः।
दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः।।
शोणितैः सिच्यमानानि वस्त्राणि कवचानि च।
छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत।।
हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः।
संक्षुण्णाः पुनरावृत्य बहुधा रथनेमिभिः।।
सगजौघमहावेगः परासुनरशैवलः।
रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः।।
तं वाहनमहानौभिर्योधा जयधनैषिणः।
अवगाह्याथ मज्जन्तो नैव मोहं प्रचक्रिरे।।
शरवर्षाभिवृष्टेषु योधेष्वञ्चितलक्ष्मसु।
न तेष्वचित्ततां लेभे कश्चिदाहतलक्षणः।।
वर्तमाने तथा युद्धे घोररूपे भयङ्करे।
मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे विंशोऽध्यायः।। 20 ।।