द्रोणपर्व
अध्यायः १९
सञ्च उवाच।
दृष्टा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः।
वासुदेवं महात्मानमर्जुनः समभाषत।।
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति।
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः।।
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव।।
सञ्जय उवाच।
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम्।
प्रावेशयत दुर्धर्षो यत्रयत्रैच्छदर्जुनः।।
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः।।
मण्डलानि ततश्चक्रे गतप्रत्यागतानि चे।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा।।
अथ नारायणाः क्रुद्धा विविधायुधपाणयः।
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम्।।
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम्।।
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे।।
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम्।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः।।
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्।।
अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे।।
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे।।
`अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ'।
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्।।
`रुधिरोक्षितगात्रास्ते प्रेक्षमाणः परस्परम्'।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः।।
`रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः।
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे।।
ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः।
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमः सूर्य इवांशुभिः।।
हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम्।
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः'।।
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्।।
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः।।
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च।।
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः।।
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा।।
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष।।
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्।
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन्।।
तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्।।
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान्।
उवाह भगवान्वायुः शुष्कपर्मचयानिव।।
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष।।
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः।
जघान निशितैर्बाणैः सहस्राणि शतानि च।।
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत्।।
पृष्ठच्छिन्नान्विचरणान्विमस्तकदृगङ्गुलीन्।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः।।
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्।।
मुण्डतालवनानीव तत्रतत्र चकाशिरे।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित्।।
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः।।
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा।
सारोहास्तुरगाः पेतुः पार्तबाणहताः क्षितौ।।
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः।
पत्तयश्चिन्नवर्माणः कृपणाः शेरते हताः।।
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ।।
रजश्च चाप्यभवद्दुर्गा कबन्धशतसङ्कुला।।
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे।
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून्।।
कते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः।।
सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः।
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः।।
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्।।
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः।
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि
द्वादशदिवसयुद्धे एकोनविंशोऽध्यायः।। 19 ।।