द्रोणपर्व

अध्यायः १

Drona Parva (Sanskrit) · Adhyaya 1
अक्षर का आकार

श्रीवेदव्यासाय नमः।

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्।।

जनमेजय उवाच।

तमप्रतिमसत्वौजोबलवीर्यपराक्रमम्।
हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना।।

धृतराष्ट्रस्ततो राजा शोकव्याकूललोचनः।
किमचेष्टत विप्रर्षे हते पितरि वीर्यवान्।।

तस्य पुत्रो हि भगवान्भीष्मद्रोणमुखै रथैः।
पराजित्य महेष्वासान्पाण्डवान् राज्यमिच्छति।।

तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम्।
यदचेष्टत कौरव्यस्तन्मे ब्रूहि तपोधन।।

वैशंपायन उवाच।

निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः।
लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः।।

तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत्।
आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा।।

`व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम्।
सैनिकानां च सर्वेषां सेनयोरुभयोस्तदा'।।

शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम्।
आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत।।

श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम्।
पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा।।

धृतराष्ट्र उवाच।

संशोच्य तु महात्मानं भीष्मं भीमपराक्रमम्।
किमकार्षुःपरं तात कुरवः कालचोदिताः।।

तस्मिन्विनिहते शूरे दुराधर्षे महात्मनि।
किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे।।

तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय।
भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम्।।

को हि दौर्योधने सैन्ये पुमानासीन्महारथः।
यं प्राप्य समरे वीरा न त्रस्यन्ति महाभये।।

देवव्रते तु निहते कुरूणामृषभे तदा।
किमकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय।।

सञ्जय उवाच।

शृणु राजन्नेकमना वचनं ब्रुवतो मम।
यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे।।

निहते तु तदा भीष्मे राजन्सत्यपराक्रमे।
तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक्।।

विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशम्य ते।
स्वधर्मं निन्दमानास्ते प्रणिपत्य महात्मने।।

शयनं कल्पयामासुर्भीष्मायामितकर्मणे।
सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः।।

विधाय रक्षां भीष्माय समाभाष्य परस्परम्।
अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम्।।

क्रोधसंरक्तनयनाः समवेत्य परस्परम्।
पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः।।

ततस्तूर्यनिनादैश्च भेरीणां निनदेन च।
तावकानामनीकानि परेषां च विनिर्ययुः।।

व्यावृत्तेऽर्यम्णि राजेन्द्र पतिते जाह्नवीसुते।
अमर्षवशमापन्नाः कालोपहतचेतसः।।

अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः।
निर्ययुर्भरतश्रेष्टाः शस्त्राण्यादाय सत्वराः।।

मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च।
कौरवा मृत्युनाऽऽहूताः सहिताः सर्वराजभिः।।

अजावय इवागोपा वने श्वापदसंकुले।
`कर्णकर्णेति चाक्रन्दञ्छेषा भारत पार्थिवाः'।
भृशमुद्विग्नमनसो हीना देवव्रतेन ते।।

पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी।
द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना।।

विपन्नसस्येव मही वाक्चैवासंस्कृता यथा।
आसुरीव यथा सेना निगृहीते नृपे बलौ।।

विधवेव वारारोहा शुष्कतोयेव निम्नगा।
वृकैरिव वने रुद्धा पृषती हतयूथपा।।

शरभाऽऽहतसिंहेव महती गिरिकन्दरा।
सा सेना भरतश्रेष्ठे पतिते जाह्नवीसुते।।

विष्वग्वाताहतिक्षुब्धा नौरिवासीन्महार्णवे।
बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता।।

सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा।
विपन्नभूयिष्ठनरा कृपणा ध्वस्तमानसा।।

तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः।
पाताल इव मज्जन्तो हीना देवव्रतेन ते।

कर्णस्य कुरवोऽस्मार्षुः स हि देवव्रतोपमः।
सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम्।।

बन्धुमापद्गतस्येव तमेवोपागमन्मनः।
चुक्रुशुः कर्णकर्णेति तत्र भारत पार्थिवाः।।

राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम्।
स हि नाबुध्यत तदा दशाहानि महायशाः।।

सामात्यबन्धुः कर्णो वै तमानयत माचिरम्।
भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः।।

रथेषु गण्यमानेषु बलविक्रमशालिषु।
सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः।।

रथातिरथसङ्ख्यायां योऽग्रणीः शूरसम्भतः।
सासुरानपि देवेशान्रणे यो योद्धुमुत्सहेत्।।

स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान्।
त्वयि जीवति कौरव्य नाहं योत्स्ये कदाचन।

त्वया तु पाण्डवेयेषु निहतेषु महामृधे।
दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव।।

हते वा त्वयि पार्थैस्तु युधि स्वर्गमुपेयुषि।
हन्तास्म्येकरथेनैव कृत्स्नान् यान्मन्यसे रथान्।।

एवमुक्त्वा महाबाहुर्दशाहान्येक एव स।
नायुध्यत ततः कर्णः पुत्रस्य तव संयते।।

भीष्मः समरविक्रान्तः पाण्डवेयस्य भारत।
जघान समरे योधानसङ्ख्येयपराक्रमः।।

तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि।
त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम्।।

तावकास्तव पुत्राश्च सहिताः सर्वराजभिः।
हा कर्ण इति चाक्रन्दन्कालोऽयमिति अब्रुवन्।।

एवं ते स्म हि राधेयं सूतपुत्रं तनुत्यजम्
चुक्रुशुः सहिता योधास्तत्र तत्र महाबलाः।।

जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम्।
अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव।।

स हि शक्तो रणे राजञ्स्त्रातुमस्मान्महाभयात्।।
त्रिदशानिव गोविन्दः सततं सुमहाभयात्।।

वैशंपायन उवाच।

तथा तु सञ्जयं कर्णं कीर्तयन्तं पुनः पुनः।
आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम्।।

धृतराष्ट्र उवाच।

यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा।
उप्यरक्षत्स राधेयः सूतपुत्रस्तनुत्यजः।।

अपि तन्न मृषाकार्षीत्कच्चित्सत्यपराक्रमः।
सम्भान्तानां तदार्तानां त्रस्तानां त्राणमिच्छतां।।

अपि तत्पूरयांचक्रे धनुर्धरवरो युधि।
यत्तद्विनिहते भीष्मे कौरवाणामपाकृतम्।।

तत्खण्डं पूरयन्कर्णः परेषामादधद्भयम्।
स हि वै पुरुषव्याघ्रो लोके सञ्जय कथ्यते।।

आर्तानां बान्धवानां च क्रन्दतां च विशेषतः।
परित्यज्य रणे प्राणांस्तत्त्राणार्थं च शर्म च।
कृतवान्मम पुत्राणां जयाशां सफलामपि।।