द्रोणपर्व
अध्यायः १९९
धृतराष्ट्र उवाच।
साङ्गा वेदा यथान्यायं येनाधीता महात्मना।
यस्मिन्साक्षाद्धनुर्वेदो हीनिषेवे प्रतिष्ठितः।।
यस्य प्रसादात्कुर्वन्ति कर्माणि पुरुषर्षभाः।
अमानुषाणि सङ्ग्रामे देवैरसुकराणि च।।
तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मणा।
नीचं कर्म कृतं तेन क्षुद्रेण गुरुघातिना।।
नामर्षं तत्र कुर्वन्ति धिक्क्षात्रं धिगमर्षिताम्।।
पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः।
श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय।।
सञ्जय उवाच।
श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः।
तूष्णीं बभूवू राजानः सर्व एव विशाम्पते।।
अर्जुनस्तु कटाक्षेण जिह्मं विप्रेक्ष्य पार्षतम्।
सबाष्पमतिनिःश्वस्य धिग्धिगित्येव चाब्रवीत्।।
युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथाऽपरे।
आसन्सुव्रीडिता राजन्सात्यकिस्त्वब्रवीदिदम्।।
नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम्।
भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम्।।
एते त्वां पाण्डवाः सर्वे कुत्सयन्ति विवित्सया।
कर्मणा तेन पापेन श्वपाकं ब्राह्मणा इव।।
एतत्कृत्वा महत्पापं निन्दितः सर्वसाधुभिः।
न लज्जसे कथं वक्तुं समितिं प्राप्य शोभनाम्।।
कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते।
गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे।।
वाच्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः।
यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि।।
अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन्।
वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता।।
कस्त्वेतद्व्यवसेत्पायं त्वदन्यः पुरुषाधम।
निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः।।
सप्तावरे तथा पूर्वे बान्धवास्ते निमञ्जिताः।
यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम्।।
उक्तवांश्चापि यत्पार्थे भीष्मं प्रति नरर्षभ।
तथान्तो विहितस्तेन स्वयमेव महात्मना।।
तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः।
नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत्।।
स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल।
शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः।।
पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः।
त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः।।
पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि।
शिरस्ते पोथयिष्यामि गदया वज्रकल्पया।।
त्वां च ब्रह्महणं दृष्ट्वा जनः सूर्यमवेक्षते।
ब्रह्महत्या हि ते पापं प्रायश्चित्तार्थमात्मनः।।
पाञ्चालक सुदुर्वृत्त ममैव गुरुमग्रतः।
गुरोर्गुरुं च भूयोऽपि क्षिपन्नैव हि लज्जसे।।
तिष्ठतिष्ठ सहस्वैकं गदापातमिमं मम।
तव चापि सहिष्येऽहं गदापाताननेकशः।।
सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम्।
संरब्धं सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव।।
धृष्टद्युम्न उवाच।
श्रूयतेश्रूयते चेति क्षम्यते चेति माधव।
सदाऽनार्योऽशुभः साधुं पुरुषं क्षेप्तुमिच्छति।।
क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम्।
क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते।।
स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः।
आकेशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि।।
`वरं हि ते मृतिः पाप न च ते चित्तमीदृशम्।
श्रोतुं वक्तव्यतामूलं नीचाचाराश्च मानवाः।
परान्क्षिपन्ति दोषेण स्वेषु दोषेष्वदृष्टयः'।।
यः स भूरिश्रवाश्छिन्नभुजः प्रायगतस्त्वया।
वार्यमाणेन हि हतस्ततः पापतरं नु किम्।।
प्रेषमाणो मया द्रोणो दिव्येनास्त्रेण संयुगे।
विसृष्टशस्त्रो निहतः किं तत्र कुर दुष्कृतम्।।
अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम्।
छिन्नबाहुं परैर्हन्यात्सात्यके स कथं वदेत्।।
निहत्य त्वां पदा भूमौ स विकर्षति वीर्यवान्।
किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः।।
त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः।
यदा तदा हतः शूरः सौमदत्तिः प्रतापवान्।।
यत्रयत्र तु पाण्डूनां द्रोणो द्रावयते चमूम्।
किरञ्छरसहस्राणि तत्रतत्र प्रयाम्यहम्।।
स त्वमेवंविधं कृत्वा कर्म चण्डालवत्स्वयम्।
वक्तुमर्हसि वक्तव्यः कस्मात्त्वं परुषाण्यथ।।
कर्ता त्वं कर्मणो ह्यस्य नाहं वृष्णिकुलाधम।
पापानां च त्वमावासः कर्मणां मा पुनर्वद।।
जोषमास्व न मां भूयो वक्तुमर्हस्यतः परम्।
अधरोत्तरमेतद्वि यन्मां त्वं वक्तुमर्हसि।।
अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम्।
गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम्।।
न चैव मूर्ख धर्मेण केवलेनैव शक्यते।
तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम्।।
वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः।
द्रौपदी च परिक्लिष्टा तथाऽधर्मेण सात्यके।।
प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया।
सर्वस्वमपकृष्टं च तथाऽधर्मेण बालिश।।
अधर्मेणापकृष्टश्च मद्रराजः परैरितः।
अधर्मेण तथा बालः सौभद्रो विनिपातितः।।
इतोऽप्यधर्मेण हतो भीष्मः परपुरञ्जयः।
भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः।।
एवं परैराचरितं पाण्डवेयैश्च संयुगे।
रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत।।
दुर्ज्ञेयः स परो धर्मस्तथाऽधर्मश्च दुर्विदः।
युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम्।।
सञ्जय उवाच।
एवमादीनि वाक्यानि क्रूराणि परुषाणि च।
श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत्।।
तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम्।
विनिः श्वस्य यथा सर्पः प्रणिधाय रथे धनुः।।
ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत्।
न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम्।।
तमापतन्तं सहसा महाबलममर्षणम्।
पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम्।।
चोदितो वासुदेवेन भीमसेनो महाबलः।
अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत्।।
द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली।
प्रस्पन्दमानमादाय जगाम बलिनं बलात्।।
स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः।
निगृहीतः पदे षष्ठे बलेन बलिनां वरः।।
अवरुह्य रथात्तूर्णं ध्रियमाणं बलीयसा।
उवाच श्लक्ष्णया वाचा सहदेवो विशाम्पते।।
अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते।
परमन्धकवृष्णिभ्यः पाञ्चलेभ्यश्च मारिष।।
तथैवान्धकवृष्णीनां तथैव च विशेषतः।
कृष्णस्य च तथाऽस्मत्तो मित्रमन्यन्न विद्यते।।
पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम्।
नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः।।
स भवानीदृशं मित्रं मन्यते च यथा भवान्।
भवन्तश्च यथाऽस्माकं भवतां च तथा वयम्।।
स एवं सर्वधर्मज्ञ मित्रधर्ममनुस्मरन्।
नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गवा।।
पार्षतस्य क्षम त्वं वै क्षमतां पार्षतश्च ते।
वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत्।।
प्रशाम्यमाने शैनेये सहदेवेन मारिष।
पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत्।।
मुञ्चमुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम्।
आसादयतु मामेष धराधरमिवानिलः।।
यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम्।
युद्धश्रुद्धां च कौन्तेय जीवितं चास्य संयुगे।।
किं नु शक्यं मया कर्तुं यत्कार्यमिदमुच्यताम्।
सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः।।
अथवा फल्गुनः सर्वान्वारयिष्यति संयुगे।
अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः।।
मन्यते च्छिन्नबाहुं मां भूरिश्रवसमाहवे।
उत्सृजैनमहं चैनमेष वा मां हनिष्यति।।
शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन्।
भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली।।
तौ वृषाविव नर्दन्तौ बलिनौ बाहुशालिनौ।
त्वरया वासुदेवश्च धर्मराजश्च मारिष।
यत्नेन महता वीरौ वारयामासतुस्ततः।।
निवार्य परमेष्वासौ कोपसंरक्तलोचनौ।
युयुत्सूनपरान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि
पञ्चदशदिवसयुद्धे एकोनद्विशततमोऽध्यायः।। 199 ।।