द्रोणपर्व

अध्यायः २००

Drona Parva (Sanskrit) · Adhyaya 200
अक्षर का आकार

सञ्जय उवच।

ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः।
युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः।।

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम्।
अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम्।।

क्रव्यादपक्षिसङ्घुष्टं भूतयक्षणाकुलम्।
निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम्।।

ततो वेगेन महता विनद्य स नरर्षभः।
प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम्।।

यदत्र च्छद्मनाऽऽचार्यं धर्मकञ्चुकमास्थितः।
मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः।।

तस्मात्सम्पश्यतस्तस्य द्रावयिष्यानि वाहिनीम्।
विद्राव्यसर्वान्हन्ताऽस्मि जाल्मं पाञ्चाल्यमेव तु।।

सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे।
सत्यं ते प्रतिजानामि परिवर्तय वाहिनीम्।।

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत्।
सिंहनादेन महता व्यपोह्य सुमहद्भयम्।।

ततः समागमो राजन्कुरुपाण्डवसेनयोः।
पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव।।

संरब्धा हि स्थिरीभूता द्रोण पुत्रेण कौरवाः।
उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च।।

तेषां परमहृष्टानां जयमात्मनि पश्यताम्।
संरब्धानां महावेगः प्रादुरासीद्विशाम्पते।।

यथा शिलोच्चये शैलः सागरैः सागरो यथा।
प्रतिहन्येत राजेन्द्र तथाऽसन्कुरुपाण्डवाः।।

`चुक्षुभे पृथिवी सर्वा दिशश्च प्रतिसस्वनुः।
सम्भ्रान्तान्यपि भूतानि जलजान्यपि मारिष।
ते च सर्वे तदा योधाः सम्प्रहृष्टा युयुत्सवः'।।

ततः शङ्खसहस्राणि भेरीणामयुतानि च।
अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः।।

यथा निर्मथ्यमानस्य सागरस्य तु निःस्वनः।
अभवत्तव सैन्यस्य सुमहानद्भुतोपमः।।

`वर्तमाने तथा शब्दे रौद्रे तस्मिन्भयानके।
सम्पतत्सु रथौघेषु तव तेषां च भारत'।।

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा।
अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीं।।

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः।
पाण्डवान्क्षपयिष्यन्तो दीप्तास्यः पन्नगा इव।।

ते दिशः खं च सैन्यं च समावृण्वन्महाहवे।
मुहूर्ताद्भास्करस्येव लोके राजन्गभस्तयः।।

तथाऽपरे द्योतमाना ज्योतींषीवामलाम्बरे।
प्रादुरासन्महाराज कार्ष्णायसमया गुडाः।।

चतुश्चक्रा द्विचक्राश्च शतघ्नो बहुला गदाः।
चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः।।

शस्त्राकृतिभिराकीर्णमतीव पुरुषर्षभ।
दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः।।

यथायथा ह्ययुध्यन्त पाण्डवानां महारथाः।
तथातथा तदस्त्रं वै व्यवर्धत जनाधिप।।

वध्यमानास्तदाऽस्त्रेण तेन नारायणेन वै।
दह्यमानाऽनलेनेव सर्वतोऽभ्यर्दिता रणे।।

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः।
तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो।।

आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति च प्रभो।
जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः।।

द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम्।
मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम्।।

धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया।
सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो महान्।।

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम्।
श्रेयो ह्युपदिशत्येष लोकस्य किमुतात्मनः।।

सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः।
अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम्।।

भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामे भीरुदुस्तरे।
विमज्जिष्यामि सलिले सगणो द्रौणिगोष्पदे।।

कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति।
कल्याणवृत्तिराचार्यो मया युधि निपातितः।।

येन बालः स सौभद्रो युद्धानामविशारदः।
समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः।।

येन विब्रुवती प्रश्नं तथा कृष्णा सभां गता।
उपेक्षिता सपुत्रेण दासीभावं नियच्छती।।

`रक्षणे च महान्यत्नः सैन्धवस्य कृतो युधि।
अर्जुनस्य विघातार्थं प्रतिज्ञा येन रक्षिता।।

व्यूहद्वारि वयं चैव धृता येन जिगीषवः।
वारितं च महत्सैन्यं प्रविशत्तद्यथाबलम्'।।

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वन्येषु फल्गुनम्।
कवचेन तथा गुप्तो रक्षार्थं सैन्धवस्य च।।

येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः।
कुर्वाणा मज्जये यत्नं समूला विनिपातिताः।।

`ग्रहणे च परो यत्नः कृतस्तेन यथा मम।
विदितं सर्वमेवैतद्भवतां सर्वयोधिनाम्'।।

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः।
निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः।।

`वनवासान्निवृत्तानां समये च तथा कृते।
स्नेहश्च दर्शितो नित्यं प्रत्यक्षं वो महारथाः'।।

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम्।
हतस्तदर्थे मरणं गमिष्यामि सबान्धवः।।

सञ्जय उवाच।

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः।
निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत्।।

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत।
एष योगोऽत्र विहितः प्रतिघाते महात्मनः।।

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत।
एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान्।।

यथायथा हि युध्यन्ते योधा ह्यस्त्रमिदं प्रति।
तथातथा भवन्त्येते कौरवा बलवत्तराः।।

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये।
येऽञ्जलिं कुर्वते वीर नमस्ति च विवाहनाः।
तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान्।।

ये त्वेतत्प्रतियोत्स्यन्ति मनसाऽपीह केचन।
निहनिष्यति तान्सर्वान्रसातलगतानपि।।

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत।
ईषुः सर्वे समुत्स्रष्टुं मनोभिः करणेन च।।

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः।
भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः।।

न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित्।
अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः।।

गदयाऽप्यनया गुर्व्या हेमविग्रहया रणे।
कालवत्प्रहरिष्यामि द्रौणेरस्त्रं विशातयन्।।

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह।
यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते।।

पश्यतेमौ हि मे बाहू नागराजकरोपमौ।
समर्थौ पर्वतस्यापि शैशिरस्य निपातने।।

नागायुतसमप्राणो ह्यहमेको नरेष्विह।
शक्रो यथाऽप्रतिद्वन्द्वो दिवि देवेषु विश्रुतः।।

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि।
ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे।।

यदि नारायणास्त्रस्य प्रतियोद्वा न विद्यते।
अद्यैतत्प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुपु।।

अर्जुनार्जुन बीभत्सो न न्यस्यं गाण्डिवं त्वया।
शशाङ्कस्येव ते पङ्को नैर्मल्यं पातयिष्यति।।

अर्जुन उवाच।

भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च।
एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्।।

एवमुक्तस्ततो भीमो द्रोणपुत्रमरिन्दमम्।
अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा।।

`कम्पयन्मेदिनीं सर्वां त्रासयंश्च चमूं तव।
शङ्खशब्दं महत्कृत्वा भुजशब्दं च पाण्डवः।।

तस्य शङ्खस्वनं श्रुत्वा बाहुशब्दं च तावकाः।
समन्तात्कोष्ठकीकृत्य शरव्रातैरवाकिरन्'।।

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः।
निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत्।।

ततो द्रौणिः प्रहस्यैनं द्रवन्तमभिभाष्य च।
अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः।।

पन्नगैरिव दीप्तास्यैर्वमद्भिर्ज्वलनं रणे।
अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः।।

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे।
खद्योतैरावृतस्येव पर्वतस्य दिनक्षये।।

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति।
अवर्धत महाराज यथाऽग्निरनिलोद्धतः।।

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम्।
पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत्।।

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले।
अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः।।

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च।
तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत्।।

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः।
भीमसेनमपश्यन्त तेजसा संवृतं तथा।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि
पञ्चदशदिवसयुद्धे द्विशततमोऽध्यायः।। 200 ।।