द्रोणपर्व
अध्यायः १९८
सञ्जय उवाच।
अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः।
अप्रियं वा प्रियं वाऽपि महाराज धनञ्जयम्।।
ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत।
कुत्सयन्निव कौन्तेयमर्जुनं भरतर्षभ।।
मुनिर्यथाऽरण्यगतो भाषते धर्मसंहितम्।
न्यस्तदण्डो यथा पार्थं ब्राह्मणः संशितव्रतः।।
क्षतत्राता क्षताज्जीवन्क्षन्ता स्त्रीष्वपि साधुषु।
क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियः।।
स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः।
अविपश्चिद्यथा वाचं व्याहरन्नाद्य शोभसे।।
पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः।
न चातिवर्तसे धर्मं वेलामिव महोदधिः।।
न पूजयेत्त्वां कोन्वद्य यत्त्रयोदशवार्षिकम्।
अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे।।
दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते।
आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत।।
यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः।
द्रौपदी च परामृष्टा सभामानीय शत्रुभिः।।
वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः।
अनर्हमाणास्तं भावं त्रयोदश समाः परैः।।
`बहूनि क्षाम्य शत्रूणां सत्यधर्मरता वयम्।
तथा तन्मर्षयित्वा तु यथा ते उत्पथे स्थिताः'।।
एतान्यमर्षस्थानानि मर्षितानि त्वयाऽघन।
क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम्।।
तमधर्ममपाकृष्टं स्मृत्वाऽद्य सहितस्त्वया।
सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम्।।
त्वया हि कथितं पूर्वं युद्धायाभ्यागता वयम्।
घटामहे यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे।।
स्वधर्मं नेच्छसे ज्ञातुं वृथा वचनमेव ते।
भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि।।
वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन।
विदीर्यते मे हृदयं त्वया वाक्शल्यपीडितम्।।
अधर्ममेन विपुलं धार्मिकः सन्न बुध्यसे।
यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि।।
वासुदेवे स्थिते चापि द्रोणपुत्रं प्रशंससि।
यः कलां षोडशीं पूर्णां धनञ्जय न तेऽर्हति।।
स्वयमेवात्मनो दोषान्ब्रुवाणः किं न लज्जसे।।
`मम नागायुतं पार्थ बलं बाह्वोर्विधीयते'।
दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान्।।
आविध्यैतां गदां गुर्वी भीमां काञ्चनमालिनीम्।
गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा।।
द्रावयेयं शरैश्चापि सेन्द्रान्देवान्समागतान्।
सराक्षसगणान्पार्थ सासुरोरगमानवान्।।
स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ।
द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम।।
अथवा तिष्ठ बीभत्सो सह सर्वैः सहोदरैः।
अहमेनं गदापाणिर्जेष्याम्येको महाहवे।।
ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत्।
सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुर्हरिम्।।
धृष्टद्युम्न उवाच।
बीभत्सो विप्रकर्माणि विहितानि मनीषिभिः।
याजनाध्यापने दानं यथा यज्ञप्रतिग्रहौ।।
षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः।
हतो द्रोणो मया ह्येवं किं मां पार्थ विगर्हसे।।
अपक्रान्तः स्वधर्माच्च क्षात्रधर्मं व्यपाश्रितः।
अधर्मेण हतस्तस्मादस्त्रेण क्षुद्रकर्मकृत्।।
तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम्।
प्रतिमायी निहन्याद्यो न युक्तं पार्थ तत्र किम्।।
तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा।
कुरुते भैरवं नादं तत्र किं मम हीयते।।
न चाद्भुतमिदं मन्ये यद्द्रौणिश्चात्र गर्जति।
घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन्।।
यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम्।
तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात्।।
यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे।
तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय।।
यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्च्छितः।
सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम।।
विशेषात्पितृहन्ता मे न स वध्यः कथं मया।
योऽयं पापः सुदुर्मेधा बान्धवान्युधि जघ्निवान्।
तस्य विप्रब्रुववधे कथं पापं भवेन्मम'।।
विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम्।
जानन्धर्मार्थतत्त्वज्ञ किं मामर्जुन गर्हसे।।
नृशंसः स मयाऽऽक्रम्य रथ एव निपातितः।
तन्मामनिन्द्यं बीभत्सो किमर्थं नाभिनन्दसे।।
कालानलसमं पार्थ ज्वलार्कविषोपमम्।
भीमं द्रोणशिरश्छिन्नं न प्रशंससि मे कथम्।।
योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान्।
छित्त्वाऽपि तस्य मूर्धानं नैवास्मि विगतज्वरेः।।
तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया।
निषादविषये क्षिप्तं जयद्रथशिरो यथा।।
अथावधश्च शत्रूणामधर्मः श्रूयतेऽर्जुन।
क्षत्रियस्य हि धर्मोऽयं हन्याद्धन्येत वा पुनः।।
स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव।
यथा त्वया हतः शूरो भगदत्तः पितुः सखा।।
पितामहं रणे हत्वा मन्यसे धर्ममात्मनः।
मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे।।
सम्बन्धावनतं पार्थ न मां त्वं वक्तुमर्हसि।
स्वगात्रकृतसोपानं निषण्णमिव दन्तिनम्।।
क्षमामि ते सर्वमेव वाग्व्यतिक्रममर्जुन।
द्रौपद्या द्रौपदेयानां कृते नान्येन हेतुना।।
कुलक्रमागतं वैरं ममाचार्येण विश्रुतम्।
तथा जानात्ययं लोको न यूयं पाण्डुनन्दनाः।।
नानृती पाण्डवो ज्येष्ठो नाहं वाऽधार्मिकोऽर्जुन।
`न क्षत्रिय इति प्राहुर्यो न हन्ति रणाजिरे।।
पितरं वा गुरुं वाऽपि जिघांसु पुत्रशिष्ययोः।
जिह्मेन वाऽप्यजिह्मेन हन्यादेवाविचारयन्।।
इत्युक्तं ब्रह्मणा पूर्वं क्षत्रियाणां द्विषद्वधे।
तस्माच्छिष्येण निहतः शत्रुर्मे ब्राह्मणब्रुवः।।
यः क्षत्रियसुतो हन्यात्पितरं वा गुरुं च वा।
अनिष्टं क्षत्रियो हन्यात्स वै क्षत्रिय उच्यते'।
शिष्यद्रोही हतः पापो युध्यस्व विजयस्तव।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि
अष्टनवत्यधिकशततमोऽध्यायः।। 198 ।।