द्रोणपर्व

अध्यायः १८

Drona Parva (Sanskrit) · Adhyaya 18
अक्षर का आकार

सञ्जय उवाच।

ततः संशप्तका राजन्समे देशे व्यवस्थिताः।
व्यूढानीकै रथैरेव चन्द्रार्धाख्यैर्मुदा युताः।।

ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष।
`अतीव सम्प्रहृष्टास्ते ह्युपलक्ष्य धनञ्जयम्'।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा।।

स दिशः प्रदिशः सर्वा नभश्चैव समावृणोत्।
आवृतत्वाच लोकस्य नासीत्तत्र प्रतिस्वनः।।

सोऽतीव संप्रहृष्टांस्तानुपलभ्य धनञ्जयः।
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत्।।

देवकीपुत्र पश्येमान्मुमूर्षूनद्य संयुगे।
भ्रातॄंस्त्रैगर्तकानेतान्रोदितव्ये प्रहर्षितान्।।

आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम्।।

स देवदत्तमादाय शङ्खं हेमपरिष्कृतम्।
दध्मौ वेगेन महता घोषेणापूरयन्दिशः।।

तेन शब्देन वित्रस्ता संशप्तकवरूथिनी।
विचेष्टाऽवस्थिता सङ्ख्ये ह्यश्मसारमयी यथा।।

`सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा।
चित्रे पटे यथा न्यस्ता कुशलैः शिल्पिभिर्नरैः।।

स्वनेन तेन सैन्यानां दिवमावृण्वता तदा।
सस्वना पृथिवी सर्वा तथैव च महोदधिः।
स्वनेन तेन सैन्यानां कर्णास्तु बधिरीकृताः'।।

वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः।
विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः।
`ततो व्युपारमच्छब्दः प्रहृष्टास्ते ततोऽभवन्'।।

उपलभ्य ततः संज्ञामवस्थाप्य च वाहिनीम्।
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः।।

तानर्जुनः सहस्राणि दशपञ्चभिराशुगैः।
अनागतानेव शरैश्चिच्छेदाशु पराक्रमी।।

ततो?ऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः।
प्राविध्यन्त ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः।।

एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः।
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी।।

भूय एव तु सङ्क्रुद्धास्त्वर्जुनं सहकेशवम्।
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः।।

ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति।
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने।।

ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम्।।

तैः किरीटि किरीटस्थैर्हेमपुङ्खैरजिह्मगैः।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः।।

हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत्।।

ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम्।
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत्।।

तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान्।।

सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः।
अथास्य सशिरस्त्राणं शिरः कायादपातयत्।।

`जहार पार्थः सैन्येषु सहस्रे द्वे च योधिनाम्'।
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः।।

`भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः'।
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम्।।

ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम्।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः।।

ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः।
सव्यसाचिनि सङ्क्रुद्वे त्रैगर्तान्भयमाविशत्।।

ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः।
अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव।।

ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान्।
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ।।

शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः।
गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः।

नावहास्याः कथं लोके कर्मणाऽनेन संयुगे।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम्।।

एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः।
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम्।।

ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः।
नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम्।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि अष्टादशोऽध्यायः।। 18 ।।