द्रोणपर्व

अध्यायः १७

Drona Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

सञ्जय उवाच।

ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते।
यथाभागं यथान्यायं यथागुल्मं च सर्वशः।।

कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्।।

उक्तमेतन्मया पूर्वं न तिष्ठति धन्जये।
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः।।

इति तद्वः प्रयततां कृतं पार्थेन संयुगे।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ।।

अपनीते तु योगेन केनचिच्छ्वेतवाहने।
तत एष्यति ते राजन्वशमेष युधिष्ठिरः।।

कश्चिदाहूय तं सङ्ख्ये देशमन्यं प्रकर्षतु।
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन।।

एतस्मिन्नन्तरे शून्येधर्मराजमहं नृप।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः।।

अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायते।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम्।।

एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम्।
समानेष्यामि सगणं वशमद्य न संशयः।।

यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः।
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते।।

सञ्जय उवाच।

द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्।।

वयं विनिकृता राजन्सदा गाण्डीवधन्वना।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै।।

ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्।
क्रोधाग्निना दह्यमाना ह्यशेमहि सदा निशि।।

स नो दिष्ट्याऽस्त्रसम्पन्नश्चक्षुर्विषयमागतः।
कर्तारः स्मरयं कर्म यच्चिकीर्षाम हृद्गतम्।।

भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः।।

अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽŒवा पुनः।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति।।

एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च।।

सहिता भ्रातरः पञ्च रथानामयुतेन च।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे।।

मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः।।

मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि।
रथानामयुतेनैव सोऽगमद्धातृभिः सह।।

नानाजनपदेभ्यश्च रथानामयुतं पुनः।
समुत्थितं विशिष्टानां शपथार्थमुपागमत्।।

ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक्पृथक्।
जगृहुः कुशचीराणि चित्राणि कवचानि च।।

ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः।।

यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च।।

ब्रह्मचर्युश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः।
प्राप्याँल्लोकान्सुयुद्धेन क्षिप्रमेव यियासवः।।

ब्राह्ममांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक्।
गाश्च वासांसि च पुनः समाभाष्य परस्परम्।।

`द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः।
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम्'।।

प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम्।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः।।

शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे।
सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे।

ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम्।
मद्यपस्य च ये लोका गुरुदाररतस्य च।।

ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः।
शरणागतं च त्यजतो याचमानं तथा घ्नतः।।

अगारदाहिनां चैव ये च गां निघ्नतामपि।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि।।

स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम्।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम्।।

न्यासापहारिणां ये च श्रुतं नाशयतां च ये।
क्लीबने युध्यमानानां ये च नीचानुसारिणाम्।।

नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम्।
तानाप्नुयामहे लोकान्ये च पापकृतामपि।।

यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम्।
तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः।।

यदि त्वसुकरं लोके कर्म कुर्याम संयुगे।
इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः।।

एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति।।

आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्।।

आहूतो न निवर्तेयमिति मे व्रतमाहितम्।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे।।

एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि।।

नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ।
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि।।

युधिष्ठिर उवाच।

श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम्।
यथा तदनृतं तस्य भवेतत्त्वं समाचर।।

द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः।
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ।।

अर्जुन उवाच।

अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति।।

हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो।
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन।।

सञ्जय उवाच।

अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः।।

विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव।।

ततो दौर्योधनं सैन्यं मुदा परमया युतम्।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे।।

ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके।।

।। इति श्रीमन्महाभारते द्रोणपर्वणि
द्रोणाभिषेकपर्वणि सप्तदशोऽध्यायः।। 17 ।।