द्रोणपर्व
अध्यायः १७५
सञ्जय उवाच।
दृष्ट्वा घटोत्कचं राजन्सूतपुत्ररथं प्रति।
आयान्तं तु तथायुक्तं जिघांसुं कर्णमाहवे।
अब्रवीत्तत्र पुत्रस्ते दुःशासनमिदं वचः।।
एतद्रक्षो रणे तूर्णं दृष्ट्वा कर्णस्य विक्रमम्।
अभियाति द्रुतं कर्णं तद्वारय महारथम्।।
वृतः सैन्येन महता याहि यत्र महाबलः।
कर्णो वैकर्तनो युद्धे राक्षसेन युयुत्सति।।
रक्ष कर्णं रणे यत्तो वृतः सैन्येन मानद।
मा कर्णं राक्षसो घोरः प्रमादान्नाशयिष्यति।।
एतस्मिन्नन्तरे राजञ्जटासुरसुतो बली।
दुर्योधनमुपागम्य प्राह प्रहरतां वरः।।
दुर्योधन तवामित्रान्प्रख्यातान्युद्धदुर्मदान्।
पाण्डवान्हन्तुमिच्छामि त्वयाऽऽज्ञप्तः सहानुगान्।।
जटासुरो मम पिता रक्षसां ग्रामणीः पुरा।
प्रयुज्य कर्म रक्षोघ्नं क्षुद्रैः पार्थैर्निपातितः।।
तस्यापचितिमिच्छामि शत्रुशोणितपूजया।
शत्रुमांसैश्च राजेन्द्र मामनुज्ञातुमर्हसि।।
तमब्रवीत्ततो राजा प्रीयमाणः पुनःपुनः।
द्रोणकर्मादिभिः सार्धं पर्याप्तोऽहं द्विषद्वधे।।
त्वं तु गच्छ मयाऽऽज्ञप्तो जहि युद्धे घटोत्कचम्।
राक्षसं क्रूरकर्माणं रक्षोमानुषसम्भवम्।।
पाण्डवानां हितं नित्यं हस्त्यश्वरथघातिनम्।
वैहायसगतं युद्धे प्रेषयेर्यमसादनम्।।
तथेत्युक्त्वा महाकायः समाहूय घटोत्कचम्।
जाटासुरिर्भैमसेनिं नानाशस्त्रैरवाकिरत्।।
अलम्बलं च कर्णं च कुरुसैन्यं च दुस्तरम्।
हैडिम्बिः प्रममाथैको महाबातोम्बुदानिव।।
ततो मायाबलं दृष्ट्वा रक्षस्तूर्णमलम्बलः।
घटोत्कचं शरव्रातैर्नानालिङ्गैः समार्पयत्।।
विद्धा च बहुभिर्बाणैर्भैमसेनिं महाबलः।
व्यद्रावयच्छरव्रातैः पाण्डवानामनीकिनीम्।।
तेन विद्राव्यमाणानि पाण्डुसैन्यानि भारत।
निशीथे विप्रकीर्यन्ते वातनुन्ना घना इव।।
घटोत्कचशरैर्नुन्ना तथैव तव वाहिनी।
निशीथे प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः।।
अलम्बलस्ततः क्रुद्धो भैमसेनिं महामृधे।
आजघ्ने दशभिर्बाणैस्तोत्रैरिव महाद्विपम्।।
तिxशस्तस्य संवाहं सूतं सर्वायुधानि च।
घटोत्कचः प्रचिच्छेद प्रणदंश्चातिदारुणम्।।
ततः कर्णं शरव्रातैः कुरूनन्यान्सहस्रशः।
अलम्बलं चाभ्यवर्षन्मेघो मेरुमिवाचलम्।।
ततः सञ्चुक्षुभे सैन्यं कुरूणां राक्षसार्दितम्।
उपर्युपरि चान्योन्यं चतुरङ्गं ममर्द ह।।
जाटासुरिर्महाराज विरथो हतसारथिः।
घटोत्कचं रणे क्रुद्धो मुष्टिनाऽभ्यहनद्दृढम्।।
मुष्टिनाऽभ्याहतस्तेन प्रचचाल घटोत्कचः।
क्षितिकम्पे यथा शैलः सवृक्षस्तृणगुल्मवान्।।
ततः स परिघाभेन द्विट्सङ्घघ्नेन बाहुना।
जाटासुरिं भैमसेनिरवधीन्मुष्टिना भृशम्।।
तं प्रमथ्य ततः क्रुद्धस्तूर्णं हैडिम्बिराक्षिपत्।
दोर्भ्यामिन्द्रध्वजाभाभ्यां निष्पिपेष च भूतले।।
जाटासुरिर्मोक्षयित्वा आत्मानं च घटोत्कचात्।
पुनरुत्थाय वेगेन घटोत्कचमुपाद्रावत्।।
अलम्बलोऽपि विक्षिप्य समुत्क्षिप्य च राक्षसम्।
घटोत्कचं रणे रोषान्निष्पिपेष च भूतले।।
तयो समभवद्युद्धं गर्जतोरतिकाययोः।
घटोत्कचालम्बलयोस्तुमुलं रोमहर्षणम्।।
विशेषयन्तावन्योन्यं मायाभिरतिमायिनौ।
युयुधाते महावीर्याविन्द्रवैरोचनाविव।।
पावकाम्बुनिधी भूत्वा पुनर्गरुडतक्षकौ।
पुनर्मेघमहाबत्तौ पुनर्वज्रमहाचलौ।।
पुनः कुञ्जरशार्दूलौ पुनः स्वर्भानुभास्करौ।
एवं मायाशतसृजावन्योन्यवधकाङ्क्षिणौ।
भृशं चित्रमयुध्येतामलम्बलघटोत्कचौ।।
परिघैश्च गदाभिश्च प्रासमुद्ररपट्टसैः।
मुसलैः पर्वताग्रैश्च तावन्योन्यं विजघ्नतुः।।
हयाभ्यां च गजाभ्यां च रथाभ्यां च पदातिभिः।
युयुधाते महामायौ राक्षसप्रवरौ युधि।।
ततो घटोत्कचो राजन्नलम्बलवधेप्सया।
उत्पतात भृशं क्रुद्धः श्येनवन्निपपात च।।
गृहीत्वा च महाकायं राक्षसेन्द्रमलम्बलम्।
उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे।।
ततो घटोत्कचः खङ्गमुद्वृत्याद्भुतदर्शनम्।
रौद्रस्य कायाद्वि शिरो भीमं विकृतदर्शनम्।।
स्फुरतस्तस्य समरे नदतश्चातिभैरवम्।
निचकर्त महाराज शत्रोमितविक्रमः।।
शिरस्तच्चापि सङ्गृह्य केशेषु रुधिरोक्षितम्।
ययौ घटोत्कचस्तूर्णं दुर्योधनरथं प्रति।।
`द्रोणकर्णकृपान्योधानतीत्य सुमहाबलः'।
अभ्येत्य च महाबाहुः स्मयमानः स राक्षसः।।
शिरो रथेऽस्य निक्षिप्य विकृताननमूर्धजम्।
प्राणदद्भैरवं नादं प्रावृषीव वलाहकः।।
अब्रवीच्च ततो राजन्दुर्योधनमिदं वचः।।
एष ते निहतो बन्धुस्त्वया दृष्टोऽस्य विक्रमः।
पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथाऽऽत्मनः।।
स्वधर्ममर्थं कामं च त्रितयं योऽभिवाञ्छति।
रिक्तपाणिर्न पश्येत राजानं ब्राह्मणं स्त्रियम्।
तिष्ठस्व तावत्सुप्रीतो यावत्कर्णं वधाम्यहम्।।
सञ्जय उवाच।
एवमुक्त्वा ततः प्रायात्कर्णं प्रति नरेश्वरः।
किरञ्छरगणांस्तीक्ष्णान्रुषितो रणमूर्धनि।।
ततः समभवद्युद्धं घोररूपं भयानकम्।
विस्मापनं महाराज नरराक्षसयोर्मृधे।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे पञ्चसप्तत्यधिकशततमोऽध्यायः।। 175 ।।