द्रोणपर्व
अध्यायः १७६
धृतराष्ट्र उवाच।
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्।।
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः।
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः।।
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च।
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा।।
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्।
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय।।
सञ्जय उवाच।
लोहितोक्षो महाकायस्ताम्रास्यो निम्नितोदरः।
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः।।
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्।
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः।।
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः।
महाकायो महाबाहुर्महाशीर्षो महाबलः।।
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः।
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्।।
तथैव हस्ताभरणी महामायोऽङ्गदी तथा।
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः।।
तस्य हेममयं चित्रं बहुरूपाङ्गशभितम्।
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत।।
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्।
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्।
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम्।।
कण्ठसूत्रं महच्चापि तपनीयमधारयत्।
स तेन विभ्राजत वै सविद्युदिव तोयदः।।
किङ्किणीशतनिर्घोपं रक्तध्वजपताकिनम्।
ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम्।।
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम्।
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम्।।
मत्तमातङ्गसङ्काशा लोहिताक्षा विभीपणाः।
कालवर्णासमायुक्ता बलवन्तः शतं हयाः।।
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः।
विपुलाभिः सटाभिस्ते हेषमाणा मुहुर्मुहुः।।
मुखैर्नानाविधाकारैर्वगवन्तो हयोत्तमाः।
रथेऽस्य युक्ता गकर्जन्तोऽवहंस्ते राक्षसाधिपम्।।
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः।
`घोररूपो महाकायः करालो विकृताननः'।
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे।।
स तेन सहितस्तस्थावरुणेन यथा रविः।
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान्।।
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः।
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः।।
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्।
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्।।
रथाक्षमात्रैरिपुभिः सर्वाः प्रच्छादयन्दिशः।
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्।।
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः।
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः।।
तेन वित्रास्यमानानि तव सैन्यानि भारत।
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः।।
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्।
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्।।
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्।
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः।।
स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते।
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव।।
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने।
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः।।
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः।
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी।।
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ।
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः।।
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान्।
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः।।
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ।
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ।।
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्।
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती।।
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्।
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे।।
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः।
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन्।।
घटोत्कचं यदा कर्णो विशेषयति नो नृप।
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः।।
कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः।
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः।।
शूलमुद्गरधारिण्या शैलपादपहस्तया।
रक्षसां घोररूपाणां महत्या सेनया वृतः।।
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः।
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्।।
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः।
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम्।।
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः।
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः।।
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा।।
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप।
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः।।
तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे।
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम्।।
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः।
विससर्ज शरान्धोरान्सूत पुत्रं त आविशन्।।
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे।
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः।।
सूतपुत्रस्तु सङ्क्रद्धो लघुहस्तः प्रतापवान्।
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः।।
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु।
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्।।
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्।
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया।।
प्रविद्वमतिवेगेन विक्षिप्तं कर्णसायकैः।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि।।
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम्।
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्।।
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः।
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः।।
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा।
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत्।।
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्।
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्।।
ततो मायाविनं कर्णो भीमसेनसुतं दिवि।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः।।
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम्।
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्।।
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्।
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा।।
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्।
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्।।
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्।
मायायुद्धेन मायावी सूतपुत्रमयोधयत्।।
सोऽयोधयत्तदा कर्णं मायया लाघवेन च।
अलक्ष्यमाणानि दिवि शरजालानि चापतन्।।
भैमसेनिर्महामायो मायया कुरुसत्तम।
विचचार महाकायो मोहयन्निव भारत।।
स तु कृत्वा विरूपाणि वदनान्यशुभानि च।
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया।।
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे।
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत।।
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः।
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत।।
पुनश्चापि महाकायः शतशीर्षः शतोदरः।
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः।।
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः।
सागरोर्मिरिवोद्वूतस्तिर्यगूर्ध्वमवर्तत।।
वसुधां दारयित्वा च पुनरप्यु न्यमज्जत।
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः।।
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते।
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः।।
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः।
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते।।
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रमाजिरे।।
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्।
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी।।
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः।
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत्।।
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः।।
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः।
शूलप्रासासिमुसलजलप्रस्रवणो महान्।।
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्।
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे।।
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत्।
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत।।
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि।
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्।।
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः।
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः।।
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः।
जघानास्त्रं महाराज घटोत्कचसमीरितम्।।
ततः प्रहस्य समरे भैमसेनिर्महाबलः।
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्।।
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्।।
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा।
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः।।
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्।
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्।।
घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः।
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्।।
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत्।
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः।।
अथान्यद्धनुरादाय दृढं भारसहं महत्।
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्।।
ततः कर्णो महाराज प्रेषयामास सायकान्।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति।।
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्।
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्।।
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः।
ददाह भगवान्वह्निर्भूतानीव युगक्षये।।
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः।।
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष।
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव।।
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात्।
भीमवीर्यबलोपेतात्क्रुद्ध्द्वैवस्वतादिव।।
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत।
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः।।
तलं तलेन संहत्य सन्दश्य दशनच्छदम्।
रथमास्थाय च पुनर्मायया निर्मितं तदा।।
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः।
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह।।
स ययौ घोररूपेण रथेन रथिनां वरः।
द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते।।
स चिक्षेप पुनः क्रुद्धः सुतपुत्राय राक्षसः।
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्।।
द्वियोजनसमुत्सेधां योजनायामविस्तराम्।
आयसीं निचितां शूलैः कदम्बमिव केशरैः।।
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे।।
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः।।
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा।
यदप्लुत्य जग्राह देवसृष्टां महाशनिम्।।
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः।
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः।।
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद।
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने।।
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः।
गन्धर्वनगराकारः पुनरन्तरधीयत।।
एवं स वै महाकायो मायया लाघवेन च।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः।।
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा।
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत।।
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान्।।
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः।।
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत।।
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च।
शालावृकाश्च बहवो वृकाश्च विकृताननाः।।
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्।
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चिक्रिरे तदा।।
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः।।
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्।
आजघान हयानस्य शरैः सन्नतपर्वभिः।।
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः।।
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा।
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे षट्सप्तत्यधिकशततमोऽध्यायः।। 176 ।।