द्रोणपर्व
अध्यायः १७४
सञ्जय उवाच।
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा।
आजघानरोसि शरैर्दशभिर्मर्मभेदिभिः।।
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोपि मारिष।
दशभिः सायकैर्हृष्टस्तिष्ठतिष्ठेति चाब्रवीत्।।
तावन्योन्यं शरैः सङ्ख्ये सञ्छाद्य सुमहारथैः।
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्।।
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे।
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः।।
कार्मुकप्रवरं चापि प्रचिच्छेद शितैः शरैः।
सारथिं चास्य भल्लेन रथनीडादपातयत्।।
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः।
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीडयत्।।
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः।
ततो युधिष्ठिरानीकं पद्ध्यामेवान्वपद्यत।।
आरुरोह रथं चापि सहदेवस्य मारिष।
प्रयातुकामः कर्णाय वारितो धर्मसूनुना।।
कर्णस्तु सुमहातेजाः सिंहनादविमिश्रितम्।
धनुःशब्दं महच्चक्रे दध्मौ तारेण चाम्बुजम्।।
दृष्ट्वा विनिर्जितं युद्धे पार्षतं ते महारथाः।
अमर्षवशमापन्नाः पाञ्चालाः सहसोमकाः।।
सूतपुत्रवधार्थाय शस्त्राण्यादाय सर्वशः।
प्रययुः कर्णमुद्दिश्य मृत्युं कृत्वा निवर्तनम्।।
कर्णस्यापि रथे वाहानन्यान्सूतोऽभ्ययोजयत्।
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः।।
लब्धलक्षस्तु राधेयः पञ्चालानां महारथान्।
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलम्।।
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः।
सम्प्राद्रवत्सुसन्त्रस्ता सिंहेनेवार्दिता मृगी।।
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले।
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः।।
धावमानस्य योधस्य क्षुरप्रैः स महामृधे।
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्।।
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशाम्पते।
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष।।
नाज्ञासिषुर्धावमाना बहवश्च महारथाः।
सञ्छिन्नान्यात्मगात्राणि वाहनानि च संयुगे।।
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह।
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे।।
अपि स्वं समरे योधं धावमानं विचेतसम्।
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते।।
तान्यनीकानि भग्नानि द्रवमाणानि भारत।
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्छरान्।।
अवेक्षमाणास्त्वन्योन्यं सुसम्मूढा विचेतसः।
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना।।
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः।
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः।।
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्।
अपयाने मनः कृत्वा फल्गुनं वाक्यमब्रवीत्।।
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्।
निशीथे दारुणे काले तपन्तमिव भास्करम्।।
कर्णसायकनुन्नानां क्रोशतामेष निःस्वनः।
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्।।
यथा विसृजतश्चास्य सन्दधानस्य चाशुगान्।
पश्यामि नान्तरं पार्थ क्षपयिष्यति नो ध्रुवम्।।
यदत्रानन्तरं कार्यं प्राप्तकाल च पश्यसि।
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनञ्जय।।
एवमुक्तो महाराज पार्थः कृष्णमथाब्रवीत्।
भीतः कुन्तीसुतो राजा राधेयस्याद्य विक्रमात्।।
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः।
भवान्व्यवस्यतु क्षिप्रं द्रवते हि वरूथिनी।।
द्रोणसायकनुन्नानां भग्नानां मधुसूदन।
कर्णेन त्रास्यमानानामवस्थानं न विद्यते।।
पश्यामि च तथा कर्णं विचरन्तमभीतवत्।
द्रवमाणान्रथोदारान्किरन्तं निशितैः शरैः।।
नैनं शक्ष्यामि संसोढुं चरन्तं रणमूर्धनि।
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः।।
स सवांस्तत्र यात्वाशु यत्र कर्णो महारथः।
अहमेनं हनिष्यामि मां वैष मधुसूदन।।
श्रीवासुदेव उवाच।
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे।
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्।।
नैतस्यान्योऽस्ति सङ्ग्रामे प्रत्युद्याता धनञ्जय।
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्।।
न तु तावदहं मन्ये प्राप्तकालं तवानघ।
समागमं महाबाहो सूतपुत्रेण संयुगे।।
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी।
त्वदर्थं हि महाबाहो सूतपुत्रेण संयुगे।।
रक्ष्यते शक्तिरेषा हि रौद्रां रूपं बिभर्ति च।
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः।।
स हि भीमेन बलिना जातः सुरपराक्रमः।
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च।।
सततं चानुरक्तो वो हितैषी च घटोत्कचः।
विजेष्यति रणे कर्णमिति मे नात्र संशयः।।
सञ्जय उवाच।
एवमुक्तो महाबाहुः पार्थः पुष्करलोचनः।
आजुहावाथ तद्रक्षस्तच्चासीत्प्रादुरप्रतः।।
कवची सशरः खङ्गी सधन्वा च विशाम्पते।
अभिवाद्य ततः कृष्णं पाण्डवं च धनञ्जयम्।
अब्रवीच्च तदा कृष्णमयमस्म्यनुशाधि माम्।।
ततस्तं मेघसङ्काशं दीप्तास्यं दीप्तकुण्डलम्।
अभ्यभाषत हैडिम्बिं दाशार्हः प्रहसन्निव।।
वासुदेव उवाच।
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक।
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्याचित्।
स त्वं निमज्जतां युद्धे बन्धूनां बान्धवो भव।।
यावन्ति च तवास्त्राणि सन्ति मायाश्च राक्षसीः।
`अद्यैव समयस्तेषां मायानां चैव राक्षस'।।
पश्य कर्णेन हैडिम्बे पाण्डवानामनीकिनीम्।
काल्यमानां रणे तात सिंहनेवेतरान्मृगान्।।
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः।
पाण्वानामनीकेषु निहन्ति क्षत्रियर्षभान्।।
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः।
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा।।
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः।
एते द्रवन्ति पाञ्चालाः सिंहेनेवार्दिता मृशाः।।
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे।
निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम।।
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः।
मातुलानां पितॄणां च तेसजोऽस्त्रबलस्य च।।
एतदर्थे हि हैडिम्बे पुत्रानिच्छन्ति मानवाः।
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्।।
इच्छन्ति पितरः पुत्रान्स्वार्थहेतोर्घटोत्कच।
हहलोकात्परे लोके तारयिष्यन्ति ये हिताः।।
तव ह्यत्र बलं भीमं मायाश्च तव दुस्तराः।
सङ्क्रामे युध्यमानस्य सततं भीमनन्दन।।
पाण्डवानां प्रभग्नानां कर्णेन निशि सायकैः।
मज्जतां धार्तराष्ट्रेषु भव पारं परन्तप।।
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः।
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः।।
जहि कर्णं हमेष्वासं निशीथे मायया रणे।
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः।।
सञ्जय उवाच।
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्।
अभ्यभाषत कौरव्य घटोत्कचमरिन्दमम्।।
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः।
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः।।
तद्भवान्यातु कर्णेन द्वैरथं युध्यतां निशि।
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः।।
जहि कर्णं रणे शूरं सात्वतेन सहायवान्।
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्।।
घटोत्कच उवाच।
`एवमेव महाबाहो यथा वदसि मां प्रभो।
त्वया नियुक्तो गच्छामि कर्णस्य बधकाङ्क्षया'।।
अलमेवास्मि कर्णाय द्रोणायालं च भारत।
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्।।
अद्य दास्यामि सङ्ग्रामं सूतपुत्राय तं निशि।
यं जनाः सम्प्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति।।
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन्।
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः।।
सञ्जय उवाच।
एवमुक्त्वा महाबाहुर्हैडिम्बिः परवीरहा।
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन्।।
तमापतन्तं सङ्क्रुद्धं दीप्तास्यं दीप्तमूर्धजम्।
प्रहसन्पुरुषव्याघ्रः प्रतिजग्राह सूतजः।।
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि।
गर्जतो राजशार्दूल शक्रप्रह्लादयोरिव।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे चतुःसप्तत्यधिकशततमोऽध्यायः।। 174 ।।