द्रोणपर्व
अध्यायः १७३
सञ्जय उवाच।
विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः।
क्रोधेन महताऽविष्टः पुत्रस्तव विशाम्पते।।
अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम्।
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत्।।
भवद्ध्भामिह सङ्ग्रामः क्रुद्धाभ्यां सम्प्रवर्तितः।
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना।।
निहन्यमानां पाण्डूनां बलेन मम वाहिनीम्।
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः।।
यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि।
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ।।
तदैवाहं वचः श्रुत्वा भवद्ध्यामनुसम्पतम्।
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम्।।
यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ।।
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ।।
वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते।
प्रावर्तयेतां सङ्ग्रामं घट्टिताविव पन्नगौ।।
ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ।
शैनेयप्रमुखान्पार्थानभिदुद्रुवत् रणे।।
तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः।
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः।।
अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम्।
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः।।
कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः।
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः।
एते कौरव सङ्क्रन्दे शैनेयं पर्यवाकिरन्।।
दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम्।
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः।।
तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशाम्पते।
रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः।।
द्रोणेन वध्यमानानां पाञ्चालानां विशाम्पते।
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम्।।
पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान्।
भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान्।
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः।।
अपरे मोहिता मोहात्तमेवाभिमुखा ययुः।
पाण्डवानां रणे योधाः परलोकं गताः परे।।
सा तथा पाण्वी सेना पीड्यमाना महात्मना।
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः।।
पश्यतो भीमसेनस्य विजयस्याच्युतस्य च।
ययमोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः।।
तमसा संवृते लोके न प्राज्ञायत किञ्चन।
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे।।
द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ।
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून्।।
पाञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः।
जनार्दनो दीनमानाः प्रत्यभाषत फल्गुनम्।।
द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी।
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम्।।
एतयोः शरवर्षेण प्रभग्ना नो महारथाः।
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते।।
तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ।
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः।।
तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः।
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम्।।
एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ।
उपेक्षितौ बलं तूर्णं नाशयेतां निशामिमाम्।।
सञ्जय उवाच।
तयोः संवदतोरेवं भीमकर्मा महाबलः।
आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम्।।
वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः।
पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम्।।
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः।
अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ।।
एतेन सहितो युद्ध्य पाञ्चालैश्च महारथैः।
आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन।।
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ।
द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि।।
सञ्जय उवाच।
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि।।
स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान्।
यथा सागरयो राजंश्चन्द्रोदयविरुद्धयोः।।
तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी।
युयुधे पाण्डवैः सार्धमुन्मत्तवदसङ्कुला।।
रजसा तमसा चैव संवृते भृशदारुणे।
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः।।
अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः।
प्रहरद्भिर्महाराज स्वयंवर इवाहवे।।
निःशब्दमासीत्सहसा पुनः शब्दो महानभूत्।
क्रुद्धानां युध्यमानानां जीयतां जयतामपि।।
यत्रयत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम।
तत्रतत्र स्म शूरास्ते निपतन्ति पतङ्गवत्।।
तथा संयुध्यमानानां विगाढाऽऽसीन्महानिशा।
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे त्रिसप्तत्यधिकशततमोऽध्यायः।। 173 ।।