द्रोणपर्व
अध्यायः १७२
सञ्जय उवाच।
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति।।
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः।
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः।।
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः।
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम्।।
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम्।
त्वरमाणा महावीरा माधवस्य वधैषिणः।।
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून्।।
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः।
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः।।
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान्।
क्षुरप्रैः शातयामास तावकानां स माधवः।।
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो।।
एतेषां युयुधानेन युध्यतां युधि भारत।
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव।।
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा।।
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम्।
श्रुत्वा च विपुलं नादं निशीथे रोमहर्षणे।।
सुतस्तवाब्रवीद्राजन्सारथिंरथिनां वरः।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनःपुनः।।
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान्।
सूतः सञ्चोदयामास युयुधानरथं प्रति।।
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत्।।
ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत।।
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः।।
ततः समभवद्युद्धं तुमुलं भरतर्षभ।
पाञ्चालानां च सर्वेषां भरतानां च दारुणम्।।
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम्।
सायकानामशीत्या तु विव्याधोरसि भारत।।
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम्।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा।।
हताश्वे तु रथेऽतिष्ठन्पुत्रस्तव विशाम्पते।
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति।।
शरान्पञ्छसतांस्तस्मै शैनेयः कृतहस्तवत्।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते।।
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः।
चिच्छेद तरसा युद्धे तव पुत्रस्य माधव।।
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः।।
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम्।
द्रावयामास विशिखैर्निशामध्ये विशाम्पते।।
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः।
रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः।
तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत्।।
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति।
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः।।
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम्।
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम्।।
ततस्तु समरे शूरः शकुनिः सौबलस्तदा।
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव।।
पुनश्चैव शतेनास्य संरुरोध महारथम्।।
तमर्जुनस्तु विंशत्या विव्याध युधि भारत।
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत।।
निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः।
जघान तावकान्योधान्वज्रपाणिरिवासुरान्।।
भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे।
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः।।
शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः।
सन्दष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्वृत्तलोचनैः।।
निष्कचूडामणिधरैः क्षत्रियाणां पियंवदैः।
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही।।
कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः।
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः।।
अताडयदुलूकं च त्रिभिरेव तथा शरैः।
उलूकं पुनराजघ्ने त्रिभिरेव महायशाः।।
स तु तेन समाविद्ध क्रोधाद्द्विगुणविक्रमः।
शरैरनेकसाहस्रैः सोऽर्जुनं प्रत्यविध्यत।।
तमुलूकस्तथा विद्धा वासुदेवमताडयत्।
ननाद च महानादं पूरयन्निव मेदिनीम्।।
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे।
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति।।
ततो रथादवप्लुत्य सौबलो भरतर्षभ।
उलूकस्य रथं तूर्णमारुरोह विशाम्पते।।
तावेकरथमारूढौ पितापुत्रौ महारथौ।
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः।।
तौ तु विद्धा महाराज पाण्डवो निशितैः शरैः।
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः।।
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः।
विच्छिन्नानि तथा राजन्बलान्यासन्विशाम्पते।।
तद्बलं भरतश्चेष्ठ वध्यमानं तदा निशि।
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम्।।
उत्सृज्य वाहान्समरे चोदयन्तस्तथाऽपरे।
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे।।
विजित्य समरे योधांस्तावकान्भरतर्षभ।
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ।।
धृष्टद्युम्नो महाराज द्रोणं विद्धा त्रिभिः शरैः।
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह।।
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः।
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम्।।
धृष्टद्युम्नं ततो द्रोणो विद्धा सप्तभिराशुगैः।
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे।।
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः।
व्यधमत्कौरवीं सेनामासुरीं मघवानिव।।
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष।
प्रावर्तत नदी घोरां शोणितौघतरङ्गिणी।।
उभयोः सेनयोर्मध्ये नराधद्विपवाहिनी।
तथा वैतरणी राजन्यतराजुपुरं प्रति।।
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान्।
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव।।
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ।
यमौ च युयुधानश्च पाण्डक्य वृकोदरः।।
जित्वा रथसहस्राणि तावकानां महारथाः।
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः।।
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे द्विसप्तत्यधिकशततमोऽध्यायः।। 172 ।।