द्रोणपर्व
अध्यायः १७१
सञ्जय उवाच।
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे।
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत।।
सन्दधानो धनुःश्रेष्ठं ज्यां विकुर्षन्पुनः पुनः।
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम्।।
धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया।
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह।।
तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम्।
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे।।
बलार्णवौ ततस्तौ तु समेयातां निशामुखे।
गातोद्धूतौ क्षुब्धसत्वौ भैरवौ सागराविव।।
ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः।
विव्याध हृदये तूर्णं सिंहनादं ननाद च।।
तं द्रोणः पञ्चविंशत्या विद्धा भारत संयुगे।
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम्।।
धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ।
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम्।।
ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान्।
आददेऽन्यद्धनुःश्रेष्ठं द्रोणस्यान्तचिकीर्षया।।
विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा।
द्रोणस्यानत्करं घोरं व्यसृजत्सायकं ततः।।
स विसृष्टो बलवता शरो घोरो महामृधे।
भासयामास तत्सैन्यं दिवाकर इवोदितः।।
तं तु दृष्ट्वा शरं घोरं देवगन्धर्वमानवाः।
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः।।
तं तु सायकमायान्तमाचार्यस्य रथं प्रति।
कर्णो द्वादशधआ राजंश्चिच्छेद कृतहस्तवत्।।
स च्छिन्नो बहुधा राजन्सूतपुत्रेण धन्विना।
निपपात शरस्तूर्णं निर्विषो भुजगो यथा।।
`छित्त्वा तु समरे बाणं शरैः सन्नतपर्वभिः'।
धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरैः।।
पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः।
शल्यश्च दशभिर्बाणैस्त्रिभिर्दुःशासनस्तथा।।
दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः।
पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः।।
स विद्धः सप्तभिर्घोरैर्द्रोणस्यार्थे महाहवे।
सर्वानसम्भ्रमाद्राज प्रत्यविद्ध्यत्त्रिभिस्त्रिभिः।
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम्।।
ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे।
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः।।
द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा।
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत्।।
स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः।
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरमैर्युधि।।
भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम्।
निचकर्त शिरः कायाद्द्रुमसेनस्य वीर्यवान्।।
तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे।
महावातसमुद्धूतं पक्वं तालफलं यथा।।
तान्स विद्धा पुनर्योधान्वीरः सुनिशितैः शरैः।
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः।।
न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा।
निकर्तनमिवात्युग्रं लाङ्गूलस्य महाहरिः।।
सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन्।
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम्।।
दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः।
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया।।
षण्णां योधप्रवीराणां तावकानां पुरस्कृतम्।
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नमममंस्महि।।
पतस्मिन्नेव काले तु दाशार्हो विकिरञ्छरान्।
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत।।
तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम्।
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः।।
तं सात्यकिर्महाराज विव्याध दशभिः शरैः।
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत्।।
स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः।
आसीत्समागमो राजन्बलिवासवयोरिव।।
त्रासयन्रथघोषेण क्षत्रियान्क्षत्रियर्षभः।
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत।।
कम्पयन्निव घोषेण धनुषो वसुधां बली।
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत्।।
विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि।
कर्णः शरशतैश्चापि शैनेयं प्रत्यनिद्व्यत।।
तथैव युध्यमानोऽपि वृष्णीनां प्रवरो युधि।
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम्।।
तावकाश्च महाराज कर्णपुत्रश्च दंशितः।
सात्यकिं विव्यधुस्तूर्ण समन्तान्निशितैः शरैः।।
अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो।
अविद्व्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे।।
तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते।
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान्।।
ततः कर्णो हतं मत्वा वृषसेनं महारथम्।
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत्।।
पीड्यमानस्तु कर्णेन युयुधानो महारथः।
विव्याध बहुभिः कर्णं त्वरमाणः पुनःपुनः।।
स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः।
स हस्तावापधनुषी तयोश्चिच्छेद सात्वतः।।
तावन्ये धनुषी सज्जे कृत्वा शत्रुभयङ्करे।।
युयुधानमाविध्येतां समन्तान्निशितैः शरैः।।
वर्तमाने तु सङ्ग्रमे तस्मिन्वीरवरक्षये।
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः।।
श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निःस्वनम्।
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः।।
एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान्।
पौरवांश्च महेष्वासो विक्षिपन्नुत्तमं धनुः।।
पार्थो विजयते तत्र गाण्डीवनिनदो महान्।
श्रूयते रथघोषश्च वासवस्येव नर्दतः।।
करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः।
एषा विदार्यते राजन्बहुधा भारती चमूः।।
विप्रकीर्णान्यनीकानि न हि तिष्ठन्ति कर्हिचित्।
वातेनेव समुद्धूतमभ्रजालं विदीर्यते।।
सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे।।
द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः।
विद्धानां शतशो राजञ्श्रूयते निःस्वनो महान्।।
शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति।
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे।।
हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान्।
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति।।
अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः।
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान्।।
एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः।
सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः।।
सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम्।
असंशयं महाराज ध्रुवो नो विजयो भवेत्।।
सौभद्रवदिमौ वीरौ परिवार्य महारथौ।
प्रयतायो महाराज निहन्तुं वृष्णिपार्षतौ।।
सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत।
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः।।
तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः।
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम्।।
ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम्।
यथा त्विह व्रजत्येष परलोकाय माधवः।
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया।।
कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम्।
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम्।।
वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम्।
रथैश्च दशसाहस्रैस्तूर्णं याहि धनञ्जयम्।
दुःशासनो दुर्विषहः सुबाहुर्दुः प्रधर्षणः।
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः।।
जहि कृष्णौ महाबाहो धर्मराजं च मातुल।
नकुलं सहदेवं च भीमसेनं तथैव च।।
देवानामिव देवेन्द्रे जयाशा त्वयि मे स्थिता।
जहि मातुल कौन्तेयानसुरानिव पावकिः।।
एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः।
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो।।
प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान्।
ततः प्रववृते युद्धं तावकानां परैः सह।।
प्रयाते सौबले राजन्पाण्डवानामनीकिनीम्।
बलेन महता युक्ताः सूतपुत्रस्तु सात्वतम्।।
अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून्।
तथैव पार्थिवाः सर्वे सात्यकिं पर्यवारयन्।।
भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति।
महद्युद्धं तदासीत्तुं द्रोणस्य निशि भारत।
धृष्टद्युम्नेन वीरेण पाञ्चालैश्च सहाद्भुतम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे एकसप्तत्यधिकशततमोऽध्यायः।। 171 ।।