द्रोणपर्व
अध्यायः १७०
सञ्चय उवाच।
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव।
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत्।।
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः।।
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत।
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि।।
तावुभौ समरे शूरौ शरकण्टकिनौ तदा।
व्यराजेतां महाराज श्वाविधौ शललैरिव।।
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे।।
तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ।
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे।।
तावुभौ समरे शूरौ शरकण्टकिनौ तदा।
व्यराजेतां महारान्कण्टकैरिव शाल्मली।।
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ।
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम्।।
श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव।
कर्णिनैकेन विव्याध हृदये निशितेन ह।।
नकुलस्तु भृशं विद्वः श्यालेन तव धन्विना।
निषसाद रथोपस्थे कश्मलं चाविशन्महत्।।
अत्यन्तवैरिणां दृप्तं दृष्ट्वा शत्रुं तथाऽऽगतम्।
ननाद शकुनी राजंस्तपान्ते जलदो यथा।।
प्रतिलभ्य ततः संज्ञां नकुलः पाण्डुनन्दनः।
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः।।
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ।
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे।।
अथास्य सशरं चापं मृष्टिदेशेऽच्छिनत्तदा।
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत्।।
विशिखेन च तीक्ष्णेन पीतेन निशितेन च।
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः।
श्येनं सपक्षं व्याधेन पातयामास तं तदा।।
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्।
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा।।
तं विसंज्ञं निपतितं दृष्ट्वा श्यालं तवानघ।
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात्।।
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः।।
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः।
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकायं मां वह।।
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः।
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः।।
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते।
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः।।
गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम्।
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव।।
तमाचार्यो महाराज विद्धा पञ्चभिराशुगैः।।
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव।।
महद्युद्धं तयोरासीद्धोररूपं भयानकम्।।
यथा देवासुरे युद्धे शम्बरामरराजयोः।।
शरजालावृतं व्योम चक्रतुस्तौ महारथौ।
मेघाविव तपापाये वीरौ समरदुर्मदौ।
प्रकृत्या घोररूपं तदासीद्धोरतरं पुनः।।
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम्।
कालरात्रिनिभा ह्यासीद्धोररूपा भयानका।।
शिखण्डी तु महाराज गौतमस्य महद्धनुः।
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा।।
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम्।
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम्।।
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः।
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा।।
अथान्यद्धनुरादाय गौतमो रथिनां वारः।
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम्।।
स च्छाद्यमानः समरे गौतमेन यशस्विना।
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः।।
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि।
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत।।
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम्।
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः।।
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम्।
महत्या सेनया सार्धं ततो युद्धमवर्तत।।
रथानां च रणे राजन्नन्योन्यमभिधावताम्।
बभूव तुमुलः शब्दो मेघानां गर्जतामिव।।
द्रवतां सादिनां चैव गजानां च विशाम्पते।
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ।।
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी।
अकम्पत महाराज भयत्रस्तेव चाङ्गना।।
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम्।
अगृह्णन्बहवो राजञ्शलभान्वायसा इव।।
तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः।
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत।।
सादी सादिनमासाद्य पत्तयश्च पदातिनम्।
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः।।
धावतां द्रवतां चैव पुनरावर्ततामपि।
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि।।
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु।
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः।।
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता।
दिवसप्रतिमा राजन्बभूव रणमूर्धनि।।
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति।
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः।।
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा।
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः।।
अस्त्राणां कवचनानां च मणीनां च महात्मनाम्।
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः।।
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे।
न किञ्चिद्विदुरात्मानमयमस्मीति भारत।।
अवधीत्समरे पुत्रं पिता भरतसत्तम।
पुत्रश्च पितरं मोहात्सखायं च सखा तथा।
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम्।।
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम्।
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे सप्तत्यधिकशततमोऽध्यायः।। 170 ।।