द्रोणपर्व
अध्यायः १६९
सञ्जय उवाच।
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव।
चित्रसेनस्तव सुतो वारयामास भारत।।
नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः।
स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः।।
चित्रसेनो महाराज शतानीकं पुनर्युधि।
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे।।
नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः।
गात्रात्सञ्चावयामास तदद्भुतमिवाभवत्।।
सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप।
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः।।
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः।
धनुश्चैव महाराज यतमानस्य संयुगे।।
स च्छिन्नधन्वा समरे विवर्मा च महारथः।
धनुरन्यन्महाराज जग्राहारिविदारणम्।।
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः।
विव्याध समरे क्रुद्धो भरतानां महारथः।।
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष।
जघान चतुरो वाहान्सारथिं च नरोत्तमः।।
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः।
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली।।
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे।
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम्।।
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः।।
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम्।
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा।।
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम्।
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ।।
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम्।
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे।।
तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे।
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव।।
रुक्मपुङ्खैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे।।
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ।
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे।।
वृषसेनस्ततो राजन्द्रुपदं नवभिः शरैः।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः।।
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा।
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः।।
[द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम्।
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च।।
सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम्।
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम्।।
कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च।
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान्।।
हृदयं तस्य भित्त्वा च जगाम वसुधातलम्।
कश्मलं प्राविशद्राजा वृषसेनशराहतः।।
सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम्।
तस्मिन्प्रभग्ने राजेन्द्र पाञ्चालानां महारथे।।]
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम्।
सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति।।
प्रदीपैरपरित्यक्तैर्ज्वलद्भिस्तैः समन्ततः।
व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः।।
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा।
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः।।
ततः कर्णसुतात्त्रस्ताः सोमका विप्रदुद्रुवुः।
यथेन्द्रभयवित्रस्ता दानवास्तारकामये।।
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः।
व्यराजन्त महाराज प्रदीपैरवभासिताः।।
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत।
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत।।
तेषु राजसहस्रेषु तावकेषु परेषु च।
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्।।।
स विजित्य रणे शूरान्सोमकानां महारथान्।
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः।।
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून्।
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः।।
तयोः समागमो राजंश्चित्ररूपो बभूव ह।
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव।।
प्रतिविन्ध्यं तु समरे कुर्वाणां कर्म दुष्करम्।
`अपूजयन्महाराज तव सैन्ये महारथाः'।
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत।।
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना।
विरराज महाबाहुः सशृङ्ग इव पर्वतः।।
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः।
नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः।।
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम्।
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः।।
सारथिं चास्य भल्लेन ध्वजं च समपातयत्।
रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः।।
पताकाश्च सतूणीरा रश्मीन्योक्राणि च प्रभो।
चिच्छेद तिलशः क्रुद्धःशरैः सन्नतपर्वभिः।।
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः।
अयोधयत्तव सुतं किरञ्शरशतान्बहून्।।
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव।
अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत्।।
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः।
अन्ववर्तन्त सङ्ग्रामे महत्या सेनया सह।।
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम्।
धनुर्गृह्य महाराज विव्याध तनयं तव।।
ततस्तु तावकाः सर्वे परिवार्य सुतं तव।
अभ्यवर्तन्त वेगेन महत्या सेनया वृताः।।
ततः प्रववृते युद्धं तव तेषां च भारत।
निशीथे दारुणे काले यमराष्ट्रविवर्धनम्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे एकोनसप्तत्यधिकशततमोऽध्यायः।। 169 ।।