द्रोणपर्व
अध्यायः १६
सञ्जय उवाच।
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान्।
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया।।
शरा दश दिशो मुक्ता वृषसेनेन संयुगे।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान्।।
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः।
भानोरिव महाराज घर्मकाले मरीचयः।।
तेनार्दिता महाराज रथिनः सादिनस्तथा।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः।।
हयौघांश्च रथौघांश्च गजौघांश्च महारथः।
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः।।
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत्।
सहिताः सर्वराजानः परिवव्रुः समन्ततः।।
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात्।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः।।
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत्।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः।।
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः।।
छादयन्तो महाराज द्रौपदेयान्महारथान्।
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव।।
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः।
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः।।
तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम्।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः।।
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः।
परस्परमुदीक्षन्तः परस्परकृतागसः।।
तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम्।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम्।।
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः।
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः।।
`प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत्।
शूराणामुदयस्तद्वदासीत्पुरुषसत्तम'।।
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम्।
महाबलानां बलिभिर्दानवानां यथा सुरैः।।
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम्।
त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम्।।
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम्।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत।।
`भारद्वाजममर्षश्च विक्रमश्च समाविशत्।
समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च।
महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत्।।
सारथे याहि यत्रैष पाण्डरेण विराजता।
ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट्।।
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा।
एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम्।।
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः।
मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः।।
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान्।
न मामुत्सहते तात न भीमो न च सात्यकिः।।
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः।
ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः।।
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा।
याहि सर्गं पुरस्कृत्य यशसे च जयाय च।।
सञ्जय उवाच।
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः।।
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन्।
रथेन सवरूथेन भास्वरेण विराजता।।
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः।
पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन्'।।
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत्।।
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः।
तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत्।।
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः।
दधार द्रोणमायान्तं वेलेव सरितां पतिम्।।
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम्।
सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम्।।
कुमारस्तु ततो द्रोणं सायकेन महाहवे।
विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः।।
संवार्य च रणे द्रोणं कुमारस्तु महाबलः।
शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः।।
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम्।
चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः।।
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः।
तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः।।
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम्।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः।।
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः।।
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन्।
अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्।।
युगन्धरस्ततो राजन्भारद्वाजं महारथम्।
वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम्।।
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः।
युगन्धरं तु भल्लने रथनीडादपातयत्।।
`तं विजित्य महातेजा भारद्वाजो महामनाः।
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम्'।।
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः।
व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान्।।
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम्।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून्।।
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः।।
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम्।
प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान्।।
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत्।।
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम्।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली।।
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान्।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः।।
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले।
हृतो राजेति योधानां समीपस्थे यतव्रते।।
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम्।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति।।
अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे।।
एवं सञ्जल्पतां तेषां तावकानां महारथः।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन्।।
शोणितोदां रथावर्तां कृत्वा विशसने नदीम्।
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम्।।
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम्।
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः।।
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत्।
छादयन्निषुजालेन महता मोहयन्निव।।
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम्।
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः।।
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी।
अदृश्यन्त महाराज बाणभूता इवाभवन्।।
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे।
बाणान्धकारे महति कृते गाण्डीवधन्वना।।
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते।
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन।
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः।
तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान्।।
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत्।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः।।
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः।
एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः।।
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः।।
मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः।
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे षोडशोऽध्यायः।। 16 ।।
0
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम्।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम्।।
तौ परस्परमासाद्य खह्गदन्तनखायुधौ।
हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव।।
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः।।
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम्।
बाह्यान्तरनिपातश्च निर्विशेमदृश्यत।।
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम्।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ।।
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः।
शरावरणपक्षान्ते प्रजहार जयद्रथः।।
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः।।
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट्।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः।।
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम्।
सहिताः सर्वराजानः परिवव्रुः समन्ततः।।
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम्।।
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा।
तापयामास तत्सैन्यं भुवनं भास्करो यथा।।
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम्।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव।।
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम्।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम्।।
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः।
सहिताः सर्वराजानः सिंहनादमथानदन्।।
ततस्तामेव शल्यस्य सौभद्रः परवीरहा।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम्।।
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा।
जघान सूतं शल्यस्य रथाच्चैनमपातयत्।।
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ।।
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः।।
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम्।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम्।।
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः।
अभ्याकिरन्महाराज जलदा इव पर्वतम्।।
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम्।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि
एकादशदिवसयुद्धे चतुर्दशोऽध्यायः।। 14 ।।