द्रोणपर्व
अध्यायः १६८
सञ्जय उवाच।
सहदेवमथायान्तं द्रोणप्रेप्तुं विशाम्पते।
कर्णो वैकर्तनो युद्धे वारयामास भारत।।
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः।
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः।।
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम्।
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत्।।
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान।
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत्।।
तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः।
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम्।।
विरथः सहदेवस्तु खङ्गं चर्म समाददे।
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव।।
अथ गुर्वीं महाघोरां हेमचित्रां महागदाम्।
प्रेषयामास सङ्क्रुद्धो वैकर्तनरथं प्रति।।
तामापतन्तीं सहसा सहदेवप्रचोदिताम्।
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत्।।
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः।
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः।।
ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात्।
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम्।।
रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति।
तदापतद्वै सहसा कालचक्रमिवोद्यतम्।
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः।।
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना।
ईषादण्डकयोक्रांश्च युगानि विविधानि च।।
हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान्बहून्।
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः।।
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः।
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ।।
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ।
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते।।
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह।
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः।।
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः।।
एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह।
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे।।
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः।
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव।।
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा।
कुन्त्याःस्मृत्वा वचो राजन्सत्यसन्धो महायशाः।।
सहदेवस्ततो राजन्विमनाः शरपीडितः।
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत।।
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः।
जनमेजयस्य समरे त्वरायुक्तो महारथः।।
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम्।
मद्रराजः शरौघेण च्छादयामास धन्विनम्।।
तयोः समभवद्युद्धं समरे दृढधन्विनोः।
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा।।
मद्रराजो महाराज विराटं वाहिनीपतिम्।
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम्।।
प्रतिविव्याध तं राजन्नवभिर्निशितै शरैः।
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु।।
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः।
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत्।।
हताश्वात्तुं रथात्तूर्णमवप्लुत्य महारथः।
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान्।।
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम्।
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः।।
शतानीकमथायान्तं मद्राराजो महामृधे।
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम्।।
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः।
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम्।।
ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः।
मद्रराजरथं तूर्णं छादयामास पत्रिभिः।।
ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा।
आजघानोरसि दृढं विराटं वाहिनीपतिम्।।
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत्।
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ।
सारथिस्तमपोवाह समरे शरविक्षतम्।।
ततः सा महती सेना प्राद्रवन्निशि भारत।
वध्यमाना शरशतैः शल्येनाहवशोभिना।।
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ।
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः।।
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः।
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम्।।
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः।
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम्।
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम्।।
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता।
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता।
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः।।
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट्।
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि।।
अतितीव्रं महाद्युद्धं नरराक्षसयोस्तदा।
द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत।
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम्।।
तमर्जुनः शतेनैव पत्रिणां समताडयत्।
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत।।
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम्।
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान्।।
पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत्।
विरथस्योद्यतं खङ्गं शरेणास्य द्विधाऽकरोत्।।
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ।
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्वः प्राद्रवद्भयात्।।
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ।
किऱञ्शरगणान्राजन्नरवारणवाजिषु।।
वध्यमाना महाराज पाण्डवेन यशस्विना।
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः।।
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना।
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते।।
।। इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि
चतुर्दशरात्रियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः।। 168 ।।